सामग्री पर जाएँ

पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

XIV

सप्तवर्षोऽपि युक्त्या यः समेश्वरपतेर्मनः ।
सभेशभक्तो भूपालसभे कस्मिन् जयी न सः ।।

शृण्वन्नेत्रस्य वीप्सा खलु पदविषयेऽपश्यदङ्घ्रेर्विभाषा
न्याये नव्येऽप्यनव्येऽप्यथ च परिणतिर्जैमिनेर्वाक्यजाते ।
छान्दोंऽशे पिङ्गलोऽन्यः श्रुतिशिखरमते सत्यवत्यास्तनूज-
स्तन्तेष्वेव स्वतन्ता गिरिशगुणनिका कीर्त्यते कीर्तनीयैः ।। १० ।।

त्यक्तन्यग्रोधमूलः किमु शशिमुकुटः किंस्विदेकास्यशेषो
नागः शेषोऽयमाहो गुरुरमृतभुजामाहतक्ष्माविहारः ।
किं विद्यानां समष्टिर्जगति विविधतां भेजुषीणामुदञ्च-
त्पुंभावा भारती वेत्यखिलबुधजनैर्भावितो भारतीन्दुः ।। ११ ॥

महः कापिलं सांख्यतन्ते फणिभ्यामनन्यं च योगे विधौ छन्दसां च ।
कृतं संख्यया सर्वविद्यानिषद्यां यमाहुर्महीमण्डले पण्डितेन्द्राः ।। १२ ।।

चार्वाकस्योक्तिरर्वागजनेि समकुचद्बौद्धराद्धान्तभङ्गी
भाट्टो हट्टो विनष्टो व्यरमदथ कथा पश्य पश्यत्पदस्य
योगोऽभूदस्तयोगस्त्रिजगति फणितिः कापिली सापि लीना
ध्वान्तश्च ध्वंसिताध्वा श्रुतिशिखरमतस्थापके भास्करार्ये ।। १३ ।।

प्रतिद्वन्द्विसूरिच्छटावादकण्डूविलोपैकलीलाभृदन्तेवसन्तम्।
उपन्यासधाटीविधूतामरेड्यं विजेतुं तमीष्टां विपश्चिद्व्रजे कः ।। १४ ।

संक्षुद्य खण्डमसकृत्सिक्त्वा मधुना विधिः कवेरस्य
किं निरमिमीत रसनामिति माधुर्या यदुल्लसन्ति गिरः ॥ १५ ॥

माध्वी साध्वी न जज्ञे जगति परिणता गोस्तनी चास्तनीचा
न्यक्कारं शर्करागान्मधुरिमणि भृशं भिक्षुतां प्रापदिक्षुः ।
प्रक्षीणा क्षीरकाङ्गा समजनि मधुनो माधुरी चाधुरीणा
मोचाप्याचान्तदर्पा भणितिषु मखिनो भारतीख्यातिभाजः ।। १६ ।।

यस्याऽदृष्टो नास्ति भूमण्डलांशो यस्याऽदासो विद्यते न क्षितीशः ।
यस्याऽसाध्या नास्ति विद्या किमन्यैर्यस्याकारः सा परा शक्तिरेव ॥ १७ ॥