|
श्रेयोमार्गनिरूपणाय शरणापन्नेषु बद्धादरा
दुर्वारप्रतिवादिचक्रविमलीकारप्रकारोत्तराः ।
साष्टाङ्गप्रणमन्नरेन्द्रमुकुटीरत्नप्रभामेदुराः
श्रीमद्भास्करभारतीपदनखज्योत्स्नाङ्कुराः पान्तु नः ।।१।।
पश्यतु पदेन वेदान् व्यस्यतु वल्मीकतोऽप्युदेत्वथवा।
अस्य भुवि भास्करेन्दोः कस्य न जिह्रेतु धीर्गुणान् गातुम् ।। २ ।।
क्वाहं मन्दतमप्रज्ञः क्व गुरोर्गुणगौरवम्।
तथाप्युपश्लोकयामि तन्वानः सफलां गिरम्।। ३ ।।
गम्भीरसत्वः कुशिकान्ववाये गम्भीररायोऽजनि गेयकीर्तिः।
श्रुतेन शीलेन धिया नयेन श्रिया च यः स्वं गुरुमन्वकार्षीत् ।।४।।
विजयपुरसार्वभौमो विवृतमहाभारतस्तदुक्त्या यः ।
विद्यासु भारती सन्नुपनाम्नाप्यत्र भारती ववृते ॥ ५ ॥
तेनाभिपन्ने तनुजेऽग्रुहारे कोनाम्बिकायां किल मध्यरत्नम्।
प्रकाशको भास्करवज्जगत्याः प्रधीरभूद्भास्करराय नाम्ना ।। ६ ।।
प्रादुर्भूतः सैष भागानगर्यां पुर्यां काश्यां तातपादोपनीतः।
अन्तेवासी सन्नृसिंहाध्वरीन्दोरस्माद्विद्याः प्रापदष्टादशापि ।। ७ ।।
स बालभावे जनकोपदिष्टसारस्वतोपासनया नयाढ्यः।
विद्याः समस्ताः सकलाः कलाश्च विनापि यत्नेन वशे चकार ।। ८॥
|