|
भासुरानन्दनाथाख्याद्भासुरो दीक्षया स्वयम्।
पद्मावत्यम्बिकेत्याख्यां चकार सुदृशः सुधीः ।२९ ॥
शिवदत्तशुक्लचरणासादितपूर्णाभिषेकसाम्राज्यः।
गुर्जरदेशे विदधे जर्जरधैर्यं स वल्लभाचार्यम्। ३० ॥
वादे मस्करिणं माध्वं विधूयामुष्य बन्धुजाम्।
पार्वतीं व्यवहत्कीर्त्या समं सत्यप्रतिश्रवाः ।।३१ ॥
आसृष्टेरनुवर्तमानमभितः श्वश्रूस्नुषाभावजं
वैमुख्यं परिहृत्य तादृशमिह स्वस्मिन्स्वकीयेषु च ।
अन्योन्यं कमलाविरिञ्चिसुदृशोरातन्वतः सङ्गतं
श्रीमद्भास्करयज्वनश्चतुरता वाचा कथं वर्ण्यते ।। ३२ ॥
काश्यां जज्ञे सोमपीथी यथावत्कालं कंचित्तत्र कृत्वा विहारम् ।
शिष्यस्यासौ चन्द्रसेनस्य राज्ञः सेवातुष्ट्योवास कृष्णोपकण्ठम् ॥ ३३ ॥
यादववंशैकमणिर्यो भोसलभूभृतश्चमूनाथः ।
श्रीगुरुचरणोपास्तौ स्वयमेव प्रापदुपमितिं स्वस्य ॥ ३४ ॥
अनेकाग्रहारप्रतितष्ठागरिष्ठः शिवश्रीधराद्यालयोल्लासनिष्ठः ।
अजस्रप्रवृत्तान्नसत्रो वसिष्ठः स पूर्तानि चक्रे बहून्यार्तबन्धु : ॥ ३५ ॥
चक्रेशमस्थापयदेष काश्यां गम्भीरनाथं किल कोङ्कणेषु।
मूलहृदे श्रीमति पाण्डुरङ्गं वज्रेश्वरं नाम च सेतुबन्धे । । ३६।।
सन्नतिमान्नाथपदोः सन्नतिनाम्नेह विश्रुते क्षेत्रे ।
चक्रे स मन्दिरं श्रीचक्राकारेण चन्द्रलाम्बायाः ।। ३७।।
बहोः कालात्किलाशेषमदश्चोलेषु नीवृति।
कहोलेशमसौ चक्रे महोत्सवनिरन्तरम् ॥ ३८ ।।
|