सामग्री पर जाएँ

पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

XV

<poem>

आ प्राचः कामरूपाद्द्रुहिणसुतनदप्लावितादा प्रतीचो गान्धारात्सिन्धुसार्द्राद्रघुवरचरितादा च सेतोरपाचः । आ केदारादुदीचस्तुहिनगहनतः पुण्यदेशानशेषां- स्तीर्थान्यम्याणि पीठान्यपि च दिविषदां सैष साक्षादकार्षीत् ।। १८ ।।

कामरूपात्परं नाम रूपाभिधं दृष्टवान्नीवृतं दूरतः केवलम्। पापभीरुर्यदा भूपतेरासते तत्र नार्यः पुमांसोऽपि दिग्वाससः ।।। १९ ।।

स एष गङ्गाधरवाजपेयिसकाशतः साधितगौडतर्कः । गङ्गावगाहाद्विरजाः पितृणां गतोऽनृणत्वं सुकृती गयायाम् ।। २० ।।

शिवभक्त्यामुपमन्युः शिवपदाब्जार्हणे हयग्रीवः । यः पुण्डरीकनयनोपास्ताविह जगति पुण्डलीकोऽभूत् ।। २१ ।।

साचालोऽखिलतीर्थेष्वाचारो वृद्धिमान्प्रचारणया। आत्मविचारः सन्ततमव्यभिचारः शिवेऽस्य भावोऽभूत्।।। २२ ।।

आनन्दी परिणिन्येऽसावानन्दीनामिकां प्रियाम्। सानन्दयन्मनो भर्तुर्मानं दत्त्वा तु पृष्ठतः ॥ २३ ॥

सावरणापत्रपया सालंकारा शुभेन शीलेन । सापत्या शिष्यैरपि साध्वीनां स्तूयते हि धुर्येषा। २४ ।।

अन्तरङ्गमतयाऽथ तयासावन्तरङ्गविहृतिं विदधानः । पाण्डुरङ्गमभजत्सुतमाशाः पाण्डुरं गमयति स्म यशो यः ।। २५ ॥

त्रयीमधीत्याधिगतार्थमेष त्रेता यथाकालमथादधानः । आम्नायमाथर्वणमप्रचारमध्यैष्ठ चाध्यापिपदग्रजातीन्॥ २६ ।।

देवीभागवतं नाम पुराणं प्रोक्तलक्षणम्। आनीय प्रकटीचक्रे दानी पात्रेष्वदाम्भिकः ।।॥ २७ ।।

सारल्यशालिचेताः सारं श्रीरामभद्रचरितस्य । अष्टममद्भुतकाण्डं स्पष्टदशां प्रापयत्खिलीभूतम् ॥॥ २८ ।।