पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
[षष्ठशतकम्
ललितासहस्रनाम ।

पश्यन्ति पुष्पयुञ्चा ये ये वेदान्तास्तपस्विनः।
रागिणो नैव पश्यति देव भगवतीं शिवाम् ।।


इति ।
पुष्यप्रवणेति - पुष्ये विहितकर्मरूपे श्रवणकर्तनं यस्या । उपर्युश्चरित्र-
द्वारकः संबन्धः ।
पुलोमजोति-पुलोमतो जतया इन्द्राग्यचित ! तथाच देवीभागवते षष्ठ
स्कन्धे कथा स्मर्यते । नहुषे स्वराज्यं शासति शकप्राप्त्यर्थमिन्द्राण्या भगवयाराधि-
तेति ।

इत्युक्ता मा तदा तेन शक्रपली मुमानमा।
अग्राह मन्त्रं विधिवद्गुरोर्देशः मुसाधनम् ।।
विद्यां प्राप्य गुरो।दैत्र देव त्रिपुरसुन्दरीम् ।
सम्यगरधयामास बलगुष्पचनैः शुभैः ।।


इत्यादि ।
बमोचिनीति-बन्धमाविद्यकं भवति । कारागृहृदय मोचयति । तदुक्तं
हरिवंशं अनिरुद्धे न -

एभिर्नामभिरन्यैश्च कीfतता ह्यसि गांकरि ।
वरप्रसादादवसेन क्षिप्रं म पेय बन्धनात ।।
अवेक्षस्व विशालाक्षि पादौ ते शरणं व्र हो ।
सर्वेषामेव बन्धानां मोक्षाणां कर्तुमर्हसि ।।


इत्यारभ्य

एवं स्तुता तदा देवी दुर्गा दुर्गपराक्रमः ।
बढं बाणपुरे वीरमनिरूढं व्यमोचयत् ।।


इयन्तम् । एवं देवीभागवते षष्ठस्त्रन्थे एकावलीनःमिका राज कथा कालकेतुना।
दानवेन बछ। यशोवत्या तर आ स्वपासितमवमत्र इलास्मोचितेति कथा स्मर्यते
सप्यत्रोदाहर्तव्या ।

बग्घुरल के ति--बन्धुन। उन्नतानता अंलकाश्चूर्णकुन्तला यस्याः। बर्बरालले ति
तु संप्रदायागतपाठः। बर्बरशब्दः संकुचिनानह्रस्वकेत्रेषु रूढः । ‘अनीलस्निग्धबईर
कचन।’ मिति ललितवरले प्रयोगात् । बर्वरति पाठेऽपि स एवार्थः। बर्बरत्य-
पत्रंशदर्शनरच वस्तुतोऽथमेव बहुसंमतः पाठो न बन्धुरेति । १६२ ।।

विमर्श हपिण विद्य। वियददं एस्प्रसूः ।
सर्वव्याबिप्रशमनं सर्वमृत्युनिवारिणी ।। १६३ ।।