इति दिक ।
हरिब्रह्मोनद्रेति-हरिब्रह्मन्त्रैर्विष्णुविधिशत्रैः सेवितोपासिता । श्रीनगरेऽष्टदश
सप्तदशप्राकारयोर्मध्ये, विष्णोः सप्तदशषोडशयोर्मध्ये ब्रह्मणः पञ्चदशचतुर्दशयो
मंध्ये चेन्द्रादिलोकपालानां देवीसेवार्थ निवासस्मरणात् । देवीभागवतेऽपि
ब्रह्मा विष्णूस्तथा शंभुवसवो वरुणो यमः । |
इति । एतेन विष्णुब्रह्मादिमात्रविषयकागमद्रष्ट्रणां विष्ण्वादिविषयकतत्त्वज्ञाना
भावात्तदुपासनायां प्रवृत्तापि देव्यागमदर्शिनां विशेषदर्शनान्न तदुपासनायां प्रवृत्तिः ।
'नहि भिक्षुको भिक्षुकान्याचितुमर्हति सत्यन्यस्मिन्नभिक्षुके' इति न्यायविरोधादिति
ध्वभ्यते । तदिदमुक्तमस्माभिः शिवस्तवे
त्वद्दतैश्वर्यभाजः परमशिवकथंकारमन्यानमत्र्या |
{{block center|नारायणी नादङ्कपा नामरूपविवजिता ।
हींकारी हौंमती हृद्या हेयोपादेयवर्जिता ।। १२१ ।।
नारायणीति-नरस्यापत्यमित्यर्थे नडादित्वात्फकि नारायणः शिवो विष्णुवि
तस्येयं नारायणी । नारायणपदनिरुक्तिस्तावन्मनस्मतौ --
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । |
इति
ब्रह्मवैवर्तेऽपि 'नराणामयनं यस्मात्तस्मान्नारायणः स्मृत' इति । अत्र नारशब्दो
जीवपरः । 'नू नये' इति धातुमभिप्रेत्य 'नयतीति नरः प्रोक्तः परमात्मा
सनातनः' इति देवीभागवतात् । नरस्येमे नारा इति व्युत्पत्तिसंभवात् । महा
भारते तु
नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः । |