पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ४]
१२५
सौभाग्यभास्करव्याख्या ।

तस्याः स्वरूपकम् । 'यतो वाचो निवर्तन्त ' इत्यादि श्रुतेरिति भावः । यद्वा मुक्ता-
शब्द स्वयं कप्रत्ययोत्तरं तद्धितेन मौकिकमिति नपुंसकरूपसिखानपि प्रयममेवा
णतालोपि कृते पश्चात्कप्रत्यये ‘ड्यापोः संज्ञाछन्दसोर्वहुन 'मिति हवे घटी
घटके तिवन्मौक्तिकेति त्रीलिङ्गमथि पं भवति । मौक्तिकवदाचरतोत्ययं
क्विबलात् 'अप्रत्ययादि' स्यनेनाकारप्रत्यये सति अदन्ताद्ब्वा। एवमेव मिथ्या
दधिष्ठने त्यादिवक्ष्यमाणनामयु इष्टव्यम् । तेनागमसंदोहै एव शुक्तिमयः संपुटः समु
दकस्तत्र मौकिक तेव मौक्तिकेति तत्पुरुष एवेति न परवल्लिङ्गताविरोधभयेन
बहुवीहिराश्रयणीय इति रूपकोत्प्रेक्षे । श्रतिसीमन्तेत्यादिना पुंवणिकोपास्यवं ,
सकलागममेत्यादिना चतुर्यत्रणपास्यत्वं च ध्वनितमिति व। तथाच रुद्रयामले--

यद्वे दगम्यते स्थानं ततन्त्रीरपि गम्यते ।
ब्रह्मक्षत्रियविट्शूद्रास्तेन सर्वेऽधिकारिणः ।

इति ।। ११९ ।।

पुरुषायंप्रदा पूर्णा भोगिनी भुवनेऽवरी ।
अम्बिकाऽनादिनिधना हरिजनसेविता ।। १२० ।।

पुरुषार्थप्रवेति--धर्मादींश्चतुरः पुरुषार्थाप्रददाति तथ-

ये चयति पराशक्ति विधिनाऽविधिनापि वा ।
न ते संसारिणो नूनं मुक्ता एवं न संशयः ।
तस्मादसषवणन त्रिषुराराधनं विना।
न स्तो भोगापवर्गां तु यौगपद्येन कुत्रचित् ।

इति ब्रह्मपुराणात् । 'पुरुषो वै रुद्र ' इति श्रुत्य रुद्रः अर्थप्रदः पुरुषार्थदातृत्व-

वान्यया सेति वा । निष्कलस्य ब्रह्मण उपस्यत्वं फलप्रदवं च शक्तय।यत्तमिति
भावः ।
पूर्णेति–देशकालबस्तुकृतपरिच्छेदराहित्यापूर्णा ।

पूर्णमदः पूर्णमिदं पूर्णात्पूर्वमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।

इति श्रुतेः । पञ्च मदमोपञ्चदशतिथिस्वरूपा वा । शुषलपक्षचतुर्दशी रात्रि

स्वरूप वा। नदीविशेषरूपा च ।
भोगिनीति-भोगः सुखसाक्षास्कारस्तद्वती भोगिनी वा । नागकम्यमिक
वा ।