पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति । अन्यत्रापि 'ईश्वरप्रेरितो गच्छेत्स्वर्गे वा इव भ्रमेव वे' ति । 'ऋतौ सुप्ते
जाग्रत्वमसि फलयोगे तुमता 'मित्यादि । शिवरहंस्ये श्रुतिरपि एष एव साधु
कर्म कारयति यभेम्यो लोकेभ्य उम्निनीषयेष एवासाधु कर्म कारयति यमधो
निनीषती' ति । फलमत उपपत्तेरिति ब्रह्ममीमांसाधिकरणेप्ययमेवार्थः साधितः।
'वैषम्यनैषंण्ये अपि कर्मसापेक्षत्वान्न भवत' इति च तत्रैवोक्तम् । सौरसं हितया
मपि ' ननु धम धर्मश्च स्वस्वकर्ता हविष्ठितः। अन्तरेण महादेवें फलं कर्तुः
प्रयच्छति । इति चेत्तत्र सघक्त'मित्यादिनान्तर्यामिब्राह्मणोपबृहणपूर्वकं समय

मृत्यनुग्राहकेणापि प्रश्नस्तर्केण शंकरः ।
अतः सर्वात्मना साक्षाद्धर्माधर्मफलप्रदः ।।

इति ।। ११४

मृतीप्ति-एवं कर्मकाण्डस्य क्रियाद्येवमुक्त्वा ब्रह्मकाण्डस्य सिद्वषस्तुप्रति
पादनपरत्वमपि मातुरान्वेत्याह । भृतीनां सीमसा ऊर्षोभागसम्यादुपनिषदां
भागास्तेषु विद्रवत्तदन्तर्गतरहस्यीवत्संपद्यमानाः कृता पादाब्जधूलिचरणकमल-
रजो यया सा तथोक्ता । अत्र विषयस्योपनिषदादेनिगरणहूपकातिशयोक्तिः ।
भृतिशब्दस्य स्त्रीलिङ्गवादिवशदप्रस्तुतनायिकमण्डनप्रतीतेश्च समासोक्तिः।
ताभ्यामलंकाराभ्यां वस्तुनो ध्वनिः । वेदा । अपि भगवत्याः स्वरूपं ४ङ्गग्राहिकया
विधिमुखे न प्रतिपादयितुमसमर्था एव । इतरनिषेधमात्रं कुर्वन्तस्तु दूरादेव लज्जिता
इव भीत इव वा यथाकथंचित्प्रतिपादयन्तीव । तदिदं प्रतिपादनमित्थमिति
ज्ञानाजननादत्यल्पतममिति धूलिपदेन वन्यते । एतदषि च न वेदानां सामथ्र्यादपि
तु मातुराज्ञयैवेति विप्रत्ययेन ध्वन्यत इति । तदिदमुक्तमस्माभिः शिवस्तवे -

सवंशाः भृतयोऽपि याः परशिव त्वप्राणरूपाः प्रियाः।
शृङ्गग्राहिकया त्रपाभूत इव त्वां न प्रजल्पन्ति ताः ।
अन्यानेव तु नेति नेति बहुशो वाचा निषेधन्ति चे
कोऽन्यस्त्रामिदमित्यमित्यन्वदेतत्रापि मदुर्जनः ।

इति । विधिमुखेन प्रतिपादयन्तस्त्वममाः स्थूलारुन्धतीम्यायेन तटस्थलक्षणरीत्यैव

निदिशन्तीत्याह ।
सकलागमे ति–सकलाश्च ते आगमा वेदाश्च तेषां संदोहः समूह एवं
शुक्तयस्ताभिः संपुटं पुटितं गर्भाकृतं प्रतिपादितं मौक्तिकं नासाभरणं यस्याः सा ।
तथोक्ता । मौक्सिकपदं समीपवतिसृष्ट्यादिधर्मोपलक्षकं, स्थूलतारकासाम्यासन्याय
स्मारकं च । अम्बामृखसमीपवर्यसाधरणं मौक्तिकाचेच वेदैः प्रतिपाद्यते नतु