पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति । योगशास्त्रे मुद्राविशं यस्य स च । तल्लक्षणं तत्रैव

नेत्रे ययोन्मेषनिमेषमुवते वायुर्यथा दजत रेत्रपूरः।
मनश्च संकल्पविकस्पशून्यं मनोन्मनी स मयि संनिधताम् ।


इति । भारतीयेऽपि

ध्यानध्यातव्ययभवं यदा पश्यति ' निर्गुरम् ।
तदोमनत्वं भवति ज्ञानामृतनिषेवणात् ।।


इति । मनांस्युन्मन्यन्ते उष्टज्ञानयुक्तानि कुरुत इति वा । संधिरार्षः।।
माहेश्यरोति –

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृति मीनम्य यः परः सः महेश्वरः ।।


इति श्रुतिप्रसिठस्य महेश्वरथदस्य त्रिगुणातीतत्वं शमयतावच्छेदकम्। । तद्वनं सं

तमस कालरुद्राख्यो रजस कनकाण्डजः ।
सवेन सर्वगो विष्णुर्नेर्ष्यं न महेश्वरः ।


इति । अविच्छिन्नत्यमत्र तृतीयार्थः । महेश्वरपदस्य तद्वाच्ये लक्षणा। कालरुद्र रूप
इत्युपक्रमानुसारात् । तेन तदवच्छन्नो महेश्वरः ।

मयेन बह्मचर्येण लिङ्गमस्य यथा स्थितम् ।
समर्चयन्ति ये लोकास्तन्महेश्वर उच्यते ।।


इति । भारते ' महेश्वरः स भूतानां महतामीश्वरश्च स ' इति च । यस्य पञ्च-
विंशतिव्यूहैं। वानुमशुद्धं प्रतिपादितः सोऽपि महेश्वररसस्येयं माहेश्वरी ।

महबेवति --महती च सा देवी च महादेवी १ महत्त्वं च प्रम(५गयशर.
वयम् । तदुक्तं रणे

ब्दस्य शरीरं यदप्रमेय प्रमाणतः ।
घतुमंहेति पूजायां महादेवो ततः स्मृता ।।


इति । अयया चन्द्रमूर्तेः शिवस्य महादेव इति संज्ञा तस्य पत्नी । बुधस्य मातr
रोहिणी नानी देवत्यर्थः । तथाच तं--

समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः । ।
समारमक बुधंदेवो महादेव इति स्मृतः।।
सोमात्मकस्य देवस्य महादेवस्य सूरिभिः।।
दयिता रोहिणी प्रोक्ता बुधः चैव शरीरज ।।


इति । वपवयेऽपि--
१, नश्यति