स्वकीयेभ्य: साहसेभ्य: विरन्तुमेवादिदेश । गोविन्दगुरोः विधवा
सुन्दरीमातापि वैरागिवीर: साहसाद्विरन्तुमेव निर्दिदेश । परं वैरागिवीर:
मातुर्निदेशमपि परिजहार । "गुरोराज्ञप्तिपराङ्मुखोऽयं बन्द:" इति
पत्राचारविचारचर्यां कुर्वाणा मातासुन्दरी वीरमिमं स्वसाहसा-
निम्नीचकार । मातुः सुन्दर्याः सन्देशोन्मनाः वीरोऽसौ पुनरपि
सङ्घसङ्घटनसाहसं चकार परं सम्राट् सियारः तस्या: पक्षगतान्
घनधान्यसेवानियोग व्यवहारान् समादापयन् तदीयपुरुषार्थान्
विफलीचकार ।
साम्नो व्यवहारविद्वेषी फ़रूक्सियारः सम्राट् दानै रेव शिष्यसंघं द्विधा संविभाजयन् भेदमनुजुषाणः (दण्डार्हम्) शत्रुम् च दण्डयितुमहिमानः सर्वतो दिग्भ्य: सामन्तचक्रमाकलय्य वैरागिवीर- विद्रोहविदारणपरो बभूव । सौराष्ट्राधिपतिं मिर्जा-अहमदखानं सय्यदपुरसैन्यपतिभिशदतमन्दज्ञानं औरङ्गाबादपfतं मुहम्मदखानं, कटौचाघिपतिम् भीमसिम्हं अन्याश्च सैन्यदल संग्राहकान् संग्राह्यसौ लवपुरपुरमानाय्य च बृहत्सङ्गरप्राङ्गणसमाविष्टः रक्तपातविलीनो बभूव । वैरागिवीरवीरा: स्वल्पसंख्याकाः अपि साहसपुरःसदा एव समरसम्मुखीनाः सम्राट् सैन्यैः योद्धुमारभन्त ।
वैरागिवीरश्च गुरुदासपुरपुरमधिवसन् गुरुदासनंगलग्रामगत
एव शरणमधिगतवान् । बाबाविनोदसिंहभवनगतो विनोदसिंहेन
विग्राहितः तदीयसुतेन काहनसिम्हेन शरणीकृतं: सुरक्षितोऽभूत् ।
दुर्गगता अपि वेरागिवीरवीराः संनिरुद्धाः वीवधासारप्रसारहीनः
बन्दीकृताः । वैरागिवीरश्चैक एवाभिमन्युरिव कौरवैः चक्रव्यूहव्यूहितः
नवपञ्चाशत्संख्याकैः मौहम्मदीयैः परिवार्य बद्धः संयतो बभूव ।
समाचारोऽयं पञ्चदशोत्तरा सप्तदशशततमेऽब्दे दिसम्बरमासस्य
द्वाविंशतिभ्यां तारिकायां दिल्लीसम्राजे जहांदारशाहविजयवर्षसमारोहे
एव सन्देशित: ।
गुरुदासनंगलतो लवपुरमानीताः वीरा: बन्दीकृताः सर्वे रागिवीराः साह्यहीनाः कान्दिशीकीभावं नैवार्हन् परं सम्राट् तस्य विद्रावणम- पेक्षते स्म । निगडबन्धैर्बद्धो बन्दः कन्धरापृष्ठयोरपि रज्जुभिः परिकरितः पदात्पदं प्रचलितुमपि न शशाक । व्याधानायनिगडितसिंह इव च फूत्कर्तुमेव प्रायस्यत् । लोहपञ्जरान्तः प्रवेशितश्च मुगल-