पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
वीरवैरागिचरितम्



 आयान्तु वैधव्यविधिम् विधातुम्
 विश्वासमाधाय गताश्चरोषम् ।
 व्यूहान् विधायात्तधियो विनिद्राः
 ते सर्वतः शौर्यरताः बभूवुः ॥ १५ ॥

 बटालाचलस्थानगतश्च ‘बन्दः' स्थानीयगोपेन स्वसैन्ययुक्तेन संघर्षमाघाय रक्तैकलिप्सुः रक्ताक्तनेत्रः परितप्यमान: कराग्रभागेन करवालकर्षी सकौतुकं मार्गगतान् जिघत्सुः शत्रुप्रियान् शातनकर्मदक्षान् सर्वत्र संवेशगतिम् निवेश्य चारप्रियः चाटभटान् चचाम । चन्चूर्य- माणश्च चमूश्चरास्ते संक्षोदिताः क्षोभगतैश्चशिष्यैः । वोराग्रणी वैरिविधिं दधानः तत्रत्यं सामन्तं पराजय्य सिंहासनाच्यावतार्यतं धारोवालस्थलगतमपि न शान्तम्पश्यन् । दयामाख्यश्च मोहम्मदः तदीयशासकः गुप्तिस्थलं जगाम । तत्रत्याश्च पौराः धनिनः श्रेष्ठिनो वा दलिताः निर्धना: वा सर्वे समेताः ग्रामान्तरेषु समाजग्मुः । लवपुरगताश्च तेषु केचितृकेचिच्च चम्बाख्यपर्वतीय प्रदेशगताः शरणार्थिनो बभूवुः । रूपपुरादिप्रदेशान् लङ्घमानों ‘बन्द:' शतद्रुसरित्तीर्णः जालन्धर स्थलमाप्तवान् । स्वल्पं कलहमाकलय्य तातोऽग्रेगतश्चासावमृतसरस्थले वैशाखीयोत्सवसमारोहोल्लासोल्लसित: चैत्रमासे चतुर्दशोत्तरसप्तदशशतकीयेऽब्दे बृहतीम् सभामेकां समयोजयत् । गुरुपदमलङ्कृत्योपस्थितश्चात्र धर्मदर्शनमपि समुपादिदेश । गुरुदास- भूताश्च गुरुदासपुरं प्राप्तवान् सः तत्र च पौरजानपदपृतनापरिवार- परितुष्ट: दुर्गगतिमाकाङ्क्ष्य सः महतीं सैन्यपङ्क्तिम् परिवारयामास । फ़रूक्सियारश्चसम्राट् गुरुगौरवगतं वैरागिवीरं कूटकृत्यं समन्तात् प्राचारयन् शिष्यसंघे भेदाभिशंसी तदीयदिव्य परीक्षणमेव "शिष्यधर्मगतमां सभाजन परिवेशमेव परिबन्धयामास" ।

 ‘खालसा' संघश्च द्विधाविभक्त: समयगतं भेदमवाप्य परितो भित्त एव वैरागिवीरव्यूहव्यवहारमपि शिथिलञ्चकार । वैरागि- वीरश्चोद्वेगगतः चतुर्थोपायसाध्ये शत्रौ परिसान्त्वमपक्रियेति मन्त्रमनुजुषाणः साहसं स्वकीयं नहि संजिहानः पुनरपि संघं स्वकीयं सुस्थिरं चिकीर्षन् न धैर्ये शिथिलो बभूव । परं सम्राट् कूटयोगै: स्वकीयै: चारैश्च चर्यां चरन् भेदं वृहत्तरं सम्पादयन्- समितिञ्जयपि वीरं मृत्युञ्जयमन्त्रसव्यपेक्षिणं कुर्वाणः वैरागिवीरं