प्रजास्वविनयाधानात्
रक्षाभावाच्च ताडनात् ।
सोऽभूदत्रोपजीविभ्यो
धर्वणीयोऽधिकारिभिः। ९ ।।
म्लेच्छैकराज्यस्य विचारकारी
विद्वज्जनानाम् च विनाशकर्त्ता ।
सोऽभूच्च पुणैकबिधानहर्ता
निश्वासनिर्हास निविष्टसंज्ञः ।। १० ।।
माघेन विघ्नितोत्साह: सम्राट् बहादुरशाहोऽष्टदशशते द्वादशे वर्षे
जराजीर्णकायो रुग्णः विसंज्ञ इव दुःखितः फाल्गुण प्रारम्भ एव
वमघामातिथिर्बभूव ।
दिवंगते सम्राजि सुतास्तदीयाः राज्यारोहणयुद्धयोजिता: वैरागि- वीर सैन्य सौभाग्य सौहित्य संसेवकाः अभूवन् । निहतोऽजीमुश्शानः सम्राड्भूतश्च जहांदार शाहः। परम् -
अचिराधिष्ठितो राज्ये
शत्रुष्वाहित वैभवः ।
कोपितै: राज्यसामन्तै:
कोपितो हि विनश्यति ।। ११ ।।
फ़रूक्सियाराभिधश्चाजीमुश्शानसुत: पितृवधप्रतिपोधविशेष-
वद्विष्ट: क्रूरकर्माणं जहांदारशाहं पराजित्य शिरःछेदं चास्य विधाय
सम्राट्पदमधिरूढः ।
गिरिदुर्गगतश्च वैरागिवीरः स्वोपशयादुत्थाय व्याधविनिर्गतो सरीव क्ष्वेडानिर्भरः परिवार परिकरित: परितो हन्तु शृगालकल्पान् शत्रून् स्वसीमस्वेव संप्रवृत्तः किशोरद्वयोपेत: सिम्हीद्वयोपभुक्ते मोह- वस्तर: सघोरास्थलमाक्रम्य स्वकीयां श्रयणस्थलीम् लोहगढ़प्रमुखीम् निधाय राजघानीम् शिष्यराज्यसम्राड्भूतो बभ्राम सुखसम्पदा । हान्दारशाहाभिषेके कृते मुहम्मदामीन खानो वैरागिवीरगतिरोधाय चोदितः सरहिन्दसैन्यगोप्तारं जनुद्दोनहैमदख़ानम् स्वोपसैन्यपतिम- लब्ध । देहलोलवपुरायाः पृतनाव्यूह अपि प्रत्यूहनाय प्रेरिताः।