पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
अथ चतुर्थ उच्छ्वासः


परमवीरचक्रचङ्क्रमणचुञ्चुचारचक्षुश्च सदाचारचङ्चुरचितकिर्मीर- कर्मठः कर्मणे मार्जार इव प्रसरेण मृग-इव ग्रहालुञ्चने श्येन इव, सुप्तासुप्तमनुष्यवीर्यतुलनेश्वेव, सर्पणे पन्नग इव, रूपशरीरवेशरचने मायेव स्थलेऽश्व इव जले च तरणिरिव परितो प्रविसर्पमाणः सुकेत- मण्डीधामगतः शरण्यशरणमुपगतः शरण्यशरप्रहारसव्यपेक्षी चम्बा- गिरिगह्वरगतस्थलवर्त्मनि वर्त्तमानः इरावतीसरित्तितीर्षु: उद्धलसिंह- सामन्तशङ्कास्पदीभूतः दूतामात्यप्रश्नोकृतोऽपि पाषणप्लवतरणितरण- तीव्रतरः तेजः तरस्वितार्क्ष्यवाहन इव रुक्मिणीस्वयंवर-श्रद्धालुरुद्धल- राजप्रश्रयप्रस्तावप्रोत्साहितः श्रद्धेयश्रद्धालुश्रद्दधतां प्रणयप्राग्भारफेन प्रस्फुरित वपुष्कः सविश्रम्भालापलम्पटः सृक्कणी लेलिहान: वैरिविरोध- रोधनायेरावती रोधोरिरक्षया रम्भोर्वशीरमणीयक्ष्मातलोर्वशी- विशेषशृङ्गारलास्य लालित्यः लोभोपहतचेतसां रक्षोगणसन्निभान् यवनान् युद्धयज्ञपशूनिवेष्टिमारणक्रियाकर्मठोबभूषु: सौविदल्लदल दलितदोहली द्विषद्दलनदोहदराधनकण्डूतिकण्डितकायः कुलीनकुल- पुत्रकुलकर्मकथितविक्रमवैभव: तत्त्वान्वेषी गवेषक इव ग्रामान्तराणि गाहमानो जम्बूदेशयात्रो ययौ यानयुक्तः ।



 जम्बूगतो वीर्यविभावसूभिः
 संतप्यमानः सुधियां विनेता ।
 सामन्तराजेन विरोधितोऽभ्-
 त्सैन्यैः स्वकीयैर्विजयं जगाम ।। ५ ।।


  तत्रस्थितो दक्षिणदिग्विभागे
  विश्रम्य सौभाग्यगते क्षणे सः ।
  दाम्पत्यमोहैकरतेः प्रतीकम्
  प्रष्ठम् स्वकीयं हि सुतं प्रजज्ञे ।। ६ ।।


 जितारिषड्वर्गनयेन मानवीम्
 अगम्यरूपां पदवीं प्रपित्सुकः।
 सुकर्मकर्मी धुप्तधर्मवर्धनः
 चकारसंज्ञामजिताभिधेयिनीम् ॥ ७ ॥
}}


क्षत्रियक्षेत्रीयां साहिबकौरनाम्नीं भार्यां द्वितीयामुपयम्य वज़ीराबाद- गतो वैरागिवीरो रणजितसिंहनामधेयमपरं सुतमपि जज्ञे । लघुकाल-