पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
वीरवैरागिचरितम्


शिवालिकगिरिकूटस्थांश्च विद्रोहिसामन्तान् दण्डयितुं पुनरपि प्राचलत् । कहलूरसामन्तो भीमचन्द्र एव वेरागिवीरस्य रोषदोषनिषधो जातः कुतो विभ्रमभ्रान्तो हि वैरागिवीरो यदसौ गोविन्दगुरोः प्रगतौ वैरीपक्षगतो विपक्षभूतो विद्रुग्धः देशं स्वकीयमेवसम्मानसोपाना- दधरीचकार । विलासपुरदुर्गविधेयीभूतश्च भीमचन्द्रः जालन्धरक्षेत्र- सामन्तसहितः सर्वाश्च पर्वतकीयानपि सामन्तान् एकत्रीकृत्य रक्षाहेतोः पार्वतीनां चमूनां यमपि पुरुषार्थं कृतवान् विभ्रमभ्रान्तो वैरागि- वीरस्तमेव स्वावेशदोषेण विफलीचकार भीमचन्द्रप्रमुखसामन्त- राजकसहयोगमपोह्य सः स्वसैन्यदलैः बिलासपुरदुर्गमेवेष्टकाचयतां निनाय । गिरिदुर्गगताश्च केसरिणः सकिशोरा एवेष्टिपशुमारं मारिता : मृतकायसमवायसमवेता: सक्रोष्टुविक्रोशं विलुप्यमाना: सपूतिगन्धं शतद्रुसरिस्प्रवाहपूरमेव व्यनशिरे । वैरागिवीरश्च स्व- विजयपताकां गिरिदुर्गगतां कारयित्वा सौभाग्यमात्मीयं सुभगं मन्यमान: नैतद्विममर्श यत्स्वकीयसामन्तसौहार्दमोषम् मोषम् विदेशिवैरी- दोर्दण्डदीर्घीकारं कारं स्वदेशस्य विदेशविधेयत्वमेव भविष्ये निश्चप्रचम् । भीमचन्द्रपराजयपरिश्रस्ताश्च पर्वतीयाः सामन्ता: वैरागिवीराय करदीकृतो बभूवुः । केचिदुपरोधं परिहरन्तः प्राणमन् पुरस्तात् । केचित् शिविरमस्य समागत्य सैन्यदलसदस्यीभूताः श्रद्धालवः शत्रुसमुदाय समुदयसंरोधाय प्रतिश्रुतवन्तः । सोपहाराश्च सोपधिविहितान् चरांश्चेष्टिपशुमारममारयन्तः वैरागिवीरयश: पताकां प्रास्फारयन् । मण्डीशास्ता च सिद्धसाई - सामन्तराजः करदीकृतराजसु सर्वश्रेष्ठ: नानकगोविन्दगुरुद्वयदर्शनप्राग्रहरः वैरागिवीराय निष्कारणविधेयीभूतः सर्वकालं सहयोगदानाय प्रति- ज्ञातवान । स: वैरागिवीराय चित्रदुष्करकरणकल्पं कल्पशास्त्रग्रन्थमपि समर्पितवान् । कुलूतराजेन सहितो वैरागिवीरश्चित्रदुष्करकरण- समुदायमभ्यस्यन् कुलूतराजस्य छद्मकरणस्याधारभूतः कालायस- पञ्जरविनिवेशित: तन्त्रावशुद्धये परिकल्प्यमानः सोपधि तन्त्रयुक्ति- कल्पनाध्ययनव्यपदेशविधेयीकृतः कुलूताजद्वेषदूषितः पञ्जरविनि- वेशितः बन्धनबद्ध इव पाटच्चरः देशद्रोहिराजस्य कूलूतराजस्य कूटयोगयोजित: बहादुरशाहबन्दीग्राहमेवांपेक्षमाणः प्रत्युत्पन्नमतित्वात् द्रोहिद्वेष्यद्विषद्विघाताय प्रतिजानानः कुशीलवकुलकर्मक्रियालुः पञ्जर- द्वारोदघाटनयुक्तियोग-सन्धान श्रद्धालुः कुलूतराजचक्रव्यूहभङ्गं च विद्यायाभिमन्युरिव कौरवकुलकलङ्की परिवारपरिघपरिवेष्टितः