पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
अथ चतुर्थ उच्छ्वासः


 सरहिन्दादि शिष्यग्राहगृहीतगोध्रगर्हणा विगृहीतान् प्रदेशांश्च पुनर्लब्धुम् अख्तरखानाधिपत्यगतान् द्वादशसहस्रसम्मितांश्च सैनिकान् स्वकीयगौरवपुनरावर्तनाय प्राहिणोत् । सहस्रशो मौहम्मदीयः तैः सम्मिलिताः सैन्यदलानि संवर्धयामासुः । स्थाण्वीश्वरतारावली- मध्यगतेषु स्थलेषु अमीनाबादादिषु तदीय सैन्यानां संग्रामाः समभवन् । पराजिताश्च शिष्याः अग्रे गता: शाहबादस्थलेऽपि वैरागिवीरा- भावात् स्वशिष्याणां पराजयपरिध्वस्तचेताश्च वैरागिवीरः पुनरपि प्रत्यागतः स्वबलेषु नवजीवन सञ्चरमकरोत ।

 श्वगणिनां समवायैः संगृहीतांश्च मुग्ध हरिणान् स्वकीयान् पराजयध्वंसबद्धान् सैनिकान् द्विषद्ग्राहनिग्रहनिरर्गलीकरणाय वैरागिवीर: लौहगढ़ दुर्गगतः यानात्प्रागेवासन समाविष्ट: बहादुरशाहनिग्रहं चापेक्षमाणः सुतरां साहसमधत्त । सधौरागतश्च सम्राट् असद्खान- नेतृत्वेऽनीकिनीं नियोज्य मुअज्जमकुमारमपि तत्सविधे संयोज्य वैरागिवीरं जीवग्राहग्रहणायादिदेशा दुर्गगृताश्च शिष्या: साम्राज्यसैन्यैः इष्टिपशुमारं मारिताः साहसं परित्यज्य पलायिता:। वीवधासार- प्रसाराभावादेव पुनरपि योद्धुमसमर्थास्ते दीवानहरिदयालुदत्तैक्षीयैरपि विद्विङ्विनाशाय नैव सामर्थ्यं गताः । वैरागिवीरविनाशमपेक्षमाणो गुलाबसिंहाभिघो विहितात्मत्यागो बलीयानपि निरवलम्बः सैन्ययोधः वैरागिवीरसमाकार प्रकारः तदीयनेपथ्यपरिगतः सैन्यनेतृत्वमाधातुं मतिञ्चकार । वैरागिवीरञ्च सः सुदूरहिमाद्रिषु शरणप्राप्तये प्राचोदयत् प्रथमतस्तु वैरागिवीरः कातरत्वकलङ्कभीतः तदीयात्मत्याग- साहसं निराकरोत् परं बारम्बारं बाध्यमानश्च तेन स्वीचकार स: प्रार्थनां सुगूढस्थलं च हिमाद्रियादेषु न्यवीविशत् । बन्दीकृतो गुलाबसिंहः गुलाबसिहो न तु वैरागिवीर: इति परिचित: श्वगणिनां क्रकचदारितः स्वसहयैरेव चर्मावलुञ्चं लुञ्चितः पञ्चत्वमगात् ।

वैरागिवीरासूनसुरक्षितान्विभाव्यैव गुलाबसहः वेरीविशसन- बलीभूत इति त्यागमहिमाऽस्य सैनिकस्य दिक्षु विचचार । वैरागिवीरं चाक्षतकायं श्रुत्वा वीरा: सर्वेऽपि सुविहितसाहसाः पुनरपि विजयापेक्षिणः वैरागिवीरनेतृत्वे योद्धुम् प्रवृत्तिमुदतम्भयन् । वैरागिवीरोऽपि गुलाब- सिहत्यागेन पुनरुज्जीवित इव साहसेनोत्ताम्यन् जौनपुरखालसादल- सहयोगमचाप्य पुनरपि समराङ्गणे रणभेरीमुन्नादितां चकार ।