पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
अथ तृतीय उच्छ्वासः


तेभ्यस्तेन समायोजिता: । राज्यविस्तारमिच्छन् वैरागिवीरः सहारनपुरस्थलं प्रति पदवृद्धिमकरोत् देवबन्धस्थलीया: वास्तव्या: शिष्यधर्मानुयायिनोऽभवन् । जलालखानस्तत्रत्यः स्वामी तान् सर्वानेव वन्दीचकार सन्तापदानाय चाज्ञप्तवान् । कपूरसिम्हनामा च शिष्य: शिष्यग्रन्थी वैरागिवीरं साह्यदानाय शिष्यसंघपरित्राणाय च प्रेरितवान् । वैरागिवीरश्च तन्निशम्य सहारनपुरपुरं प्रति प्राचलत् इष्टकाचयतां चेदं निनाय नजीबाबाद जलालाबादनवाबयोः पूर्व एव सन्धित्सुरभवत् अपरश्च युयुत्सुक : । जलालाबादयात्री वैरागिबन्दः बेहुताम्बेताना उन्तास्थलान्यात्मसादकरोत् । बेहूतस्थलीयाः पीरजादा: गोघातकाः वैरागिबन्दस्यप्रतिकारविधेयीभूताः । नाउन्ता- धनुर्धरैः सह वैरागिबन्दस्य साम्मुखीनः सम्परायोऽभूत् । लोप्त्रसमेतः वैरागिवीरः जलालाबादगतः जलालखानं सिंहानां मुक्तये प्रादिदेश- जलालखानश्च प्रत्यवदत्-


 कातराः येऽप्यशक्ता: हि नोत्साहस्तेषु जायते ।
 प्रायशस्तु नरेन्द्रश्रीः सोत्सहैव भुज्यते ॥ १९ ॥


 प्रोत्तेजिताश्चात्र भभास्तदीयाः
 यात्रानुपाताश्च गतिम् प्रपन्नाः ।
 सैन्यै: स्वकीयैश्च युयुत्समानाः
 दुर्गं तदीयं ननु रुद्धवन्तः ॥ २० ॥


 रुद्धाः विपक्षीय पठानयोध।:
 सोत्साहमुत्तेजितवृत्तियुक्ताः ।
 दुर्भाग्यमात्मीयमधिश्रयन्तः
 सोन्मादविश्वासहताः बभूवुः ॥ । २१ ।।


 परगहो ! भाग्यगतिर्गरिष्ठा जाता बलिष्ठा च बाधैकलीना सा प्रकृतिः कोपमुवाद रुष्टा दुर्गं हि तत् पर्वतैक विविक्तं वैरागिसैन्यैश्च दुरारोह्यमभवत् तथापि सौभाग्यगतिर्न नष्टा नष्टाः पठानाश्च पराजितास्ते कृष्णासरित्तावत्परीवाहपूर्णं सैन्यं तदीयं वृद्धेररुणन्तु ।


इति डा० सुदर्शनशर्मणां विरचिते वीरवैरागिचरिते

तृतीय उच्छ्वासः ॥