पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
वीरवैरागिचरितम्



 शब्दैस्तदीयैर्ननु सर्पकल्पै:
 दष्टो बभूर्वात्त निनाददर्शी ।
 दन्ती यथाऽऽलानगतो हि विद्ध:
 मर्माहतो बृम्हति दूनचेताः । ५३ ॥


  योधान्स्वकीयाम्श्च विलब्धसंज्ञान्
  स्वैः सामजैः साध्यगताम्श्च काङ्क्ष ।
  भौशुण्डिकैः शस्त्रयुतैश्च योधैः:
  सन्तर्जयामास रणङ्गणे सः ।। १४ ।।


 बन्धश्च स: बन्धनमाततान
 व्यूहैः स्वकीयैश्च विलिप्तमार्गः ।
 सः सामजैर्व्यूहगतिम् विधाय
 मौहम्मदो युद्धरतो बभूव ।। १५ ।।


  व्यूढं हि तद्वीक्ष्य वजीरखानः
  सैन्यम् तदीयञ्च समूहसत्कभ ।
  उत्तेजितो घूर्णित एव कोपात्
  स्वै: स्फोटकैरस्त्रशतैर्जगर्ज ॥ १६ ॥


 तां गर्जनां रोषगताश्च सिम्हा:
 आकर्ण्य सम्भाव्य बभूवुरिद्धा: ।
 संरक्तनेत्राः शालभायमाना:
 साङ्गारवर्षासु निपेतुरुग्राः ॥ १७ ॥


 अथोपपृतनापतिर्बाजसिंहः सिंहान् स्वकान् नष्टसंज्ञान् विभाव्य बन्दासिम्हं नेतृत्वमाधापयितुमाजुहाव । निरोधमुक्तश्च योधसिंहः मदमलिन कपोलभित्तिगजसत्रिभांस्तान् चपेटाप्रहारैरेव धरा- शायिनो विधातुं स्वजातीयैरेव सिँहैः समं संपतन् केसरि- किशोर इव क्रियालुः भल्लूकयुवेव मृगयुनासिकालिप्सुः संगरकौटिल्यकुटिलमति: कौटिल्यकूटैककरणशील: शौर्यकैवल्यकर्मठान् श्वापदांस्तान् शस्त्रास्त्रप्रहारै: यमधानीयसदनं संवेशयामास येन वजीरखान एक एव द्वन्द्वचिकीर्षु: समष्टिगतोऽपि व्यष्टिभावगतः एकवीरः अभिमन्युमन्युवेगव्यपदेशदर्शी चक्रव्यूहकर्मठः कर्मण्येवाधि-