पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
वीरवैरागिचरितम्


जनगणहस्तगतानि कृतानि । तानि प्राप्य ग्रामीणा: तस्मै आशिष एव प्रादुः । आशीभिरेव प्रोत्साहितोऽसौ जनगणहितविधित्सुः दस्युद्रुग्धजनविध्वंसनबद्धपरिकरः संनद्धवीरपुरुषप्रकटितशौर्याशयः नीतिनुन्नाशौर्यसम्भावितसौहार्दश्च स: सौराज्यरागी वैराज्यवैरागी विध्वंसकृतां विध्वंसकः नृशंसकृद्भ्यो नृशंस कृत्कः दलितदलदलन- दुहिलदारणदक्षः, दुष्टसंहारविहारी, कष्टसंवारसंस्कारी व्यव- सायितायुतर्दनतृषालुः स्वभयस्तातताय्यध्यक्षप्रतारणशयालुः श्रद्धालूनाम् श्रद्धालुः शर्धतां च शातनशीलः मुग़लसम्राजां मारात्मकमनोवृत्तीनां मथनमनीषी अमानवीयमानवमर्दनमोहमूढ: मिथ्यावादिमृषावाद- विषूचिकाविनाशकारी गोविन्दगुरोरग्रमार्गण इवाग्रगामी सर्ववीरान् वैरिणां वीर्यं विरसीकर्तुम् व्याख्यानमददात् । व्याख्यानमस्य निशम्य नृणां निकाया: केतनेषु केतूनाकलय्य चेकितानाः साकूत- माख्यन्तः संख्यातवीरपुरुषानसंख्यातमात्रामापादयन् । वैरागिवीरः वीररागमेवोच्चैस्तमां गायन् गुरुगौरवगानगरीयान् स्वयमेव गुरुगौरवगुप्तः सुगुप्तिगुप्तैः गोविन्दसिंहशिष्यैः गुरोरस्यावतार- समतामापादितः गोविन्दमार्गणाश्च तैः विजयशपथपदवीमापादितः सहायीकृताः । सैन्यदलान्यत्र त्रिविधान्येवासन्। एकानि तानि येषु वीराः सैनिकाः जीवितनिरपेक्षाः प्राणपणैरपि गरुगोविन्दगौरवे भक्तिमन्त: अपराणि तानि येषु रामसिंहत्रिलोकसिम्हसामन्तनायक- निष्ठावन्त: स्वार्थपराः सर्वस्वमेव स्वं स्वीकर्त्तुमुत्सुका: प्रलोभ्यलोभै: परिक्रीताः पार्ष्णिस्थाः पुरुषद्रव्यसम्पत्संयोजयन्तः प्राणामेव परित्राय कार्याणि कुर्वाणा: वैरागिवीरसाह्यमकुर्वन् । तृतीयाश्च ते ये लोप्त्र- धस्मरा: लुण्टाका इव विकटस्थितिस्थानशीला: साहसिका: पुरगोपुर प्राकारतोरणभङ्क्तिभिर्दाहैर्वा दुराचारविदग्धाः द्रोहिदस्युभूतदानव- दौरात्म्यद्रुहिलसंमर्दविमर्दकुशलारिविदारणपेशला: प्राणापहारिण: ।

 कपिलस्थलकोशहरणवृत्तान्त: तत्स्थानीयप्रशासकेनामिलेन यदा लब्धस्तदैव सः स्वानीकिनीभिः सन्नद्ध: अश्वारोहबहुल: पत्तिप्रायान् वैरागिवीरशिष्यानाक्रमितुम् स्थलं तत्प्राप्तवान् । वैरागिवीरोऽत्र मनसि चकार यत्पार्श्ववर्त्तिवनद्रुमगुल्मतृणकक्षकण्टकिलप्रदेश एव सैन्यगुप्तिः समयप्रतीता । अश्वारोहाश्च क्षुपोच्छेदमुत्तोलनाय पद्गन्तारो बभूवुः । तद्गतांस्तानवलोक्य वैरागीवीराग्रणीर्वीरान् स्वान् इङ्गिताकाराभ्यां उद्भाव्य गुल्मकक्षेभ्यः निःसार्य चाश्वाना-