सामग्री पर जाएँ

पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
अथ तृतीय उच्छ्वासः


 कन्धरो धराशायी शयानः शूनान्तराल: शृगाल इवात्तस्नाय्वान्त्रनेत्र- प्रेतरङ्कैः कपालकरङ्कङ्कर्षेः कवलितः दुर्गगतस्वसैन्यदलदुर्गत दोहदाया- लम्बभूव । वैरागिवीरवैरविकारविसरविध्वंसप्रसरप्रसारपुरुष काररौद्रदारण दोहलमालोक्य दुर्गद्वाररक्षी शतघ्न्यगोलवर्षणायादिदेश । तूणीरगतशरासारवर्षेश्च वैरागी भौशुण्डयशातघ्न्यगोलान् मध्येमार्गमेव चूर्णीचकार । तथाविधे गते साम्पराये सममेधश्चयीभूतेषु आरक्षिपुरुषेषु दुर्गामशवशिविरमिवभासमानं यौगन्धरीणशक्तिशातित तारकं तारकितं भग्नशिरोधराशिराः शिरजालजालकितं शीर्णदीर्णदिवंगतजीव जीर्णा- रण्यमिव शून्यं समजनि । हिन्दुशरशकलितशिरस्कमोहम्मदं स्थलमिदं सरहिन्दाख्यं हिन्दुजनस्वातन्त्र्यचिह्नाकारपताकास्थानकैः पताकायितम- भवत् । हिन्दुगणशिरोरत्नभूतमिदं सरहिन्दस्थलं सौरमण्डलाखण्डले- लावृत्प्राकारपरिकरितं गोपुरतोरणद्वारगतध्वजधूननं न्यदधात् ।

 अनुश्रूयते यत् सरहिन्दविजयात्प्राक् वैरागिवीरः धनाभावात् वीवधासार प्रसारसरणि संकटविकटवैभवः शत्रुशातनशील एव मनस्वी व्यापारिणा केनचित स्वीयायतो भागदशकमवाप्य प्रवर्धमानः स्वसैन्यैः कपिलस्थल कपिस्थलाद्यतनीय कैथलस्थलीयग्रामात् यान्तमेकं कोश- धृतमपि पुरुषं हत्वा स्वधनेषणां सम्पूर्णां चकार । ‘मृध्वधूवरणे हृद्वधूवरणे च सर्वं सापेक्ष्यमपेक्ष्यं वा न्याय्यमेव भवति’ इति विधि मा- कलय्य दस्युभावोऽप्यस्य देशिदास्यदूषणदारकं प्रशस्यं भूयात् । ग्रामे कस्मिन् दस्युदूना: ग्रामीणः दस्युदौरात्म्यदूनाः वैरागिवीरेणै- वावस्कद्यमारितैर्दस्युभि: दुःखासिकादीर्णाः सुखिनः कृताः तद्वीरत्व प्रशस्तिचिख्यासनाः तदगौरवमेव गीतवन्तः । द्रोहिदस्युदारणाय दस्युभावभवनमप्यस्य सुखपक्षीयं स्यात् गुणगरिमणं चादध्यादिति भणितिरत्र श्लाघ्या ।

 बङ्गारग्रामोपस्थस्थायी च वैरागी दस्युर्दोहविद्रोहविद्रावितैः ग्रामीणैः त्रासगद्गदं गदद्भिः प्रभावितः ग्रामविध्वंसदोषपेक्षी स्वपौरुषप्रवणांस्तान् संविधाय पार्ष्णिग्राहांस्तान् संरक्ष्य स्वभुजदण्ड- कोदण्डकर्षणकुशल: दस्युद्विष्ट: दुष्टांस्तान् दस्यून् दमनादेशदक्षः दमनायादिदेश। दस्यवश्च ते लुण्टाक एव प्रकाशवीरवेरागिवैरवैर- स्याविधिविषहणविसंष्ठूलाः वैरागिवीरगणग्रसिताः पदैः स्खलितः कान्दिशीका: बभूवः । विद्रुतT२च ते प्राक्तनस्थलापहृतलोप्त्राण्यपि व्यस्राक्षुः। वैरागिहस्त प्रापितानि च लोप्त्राणि पुनरपि लुण्ठित-