पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
वीरवैरागिचरितम्


कालकूटमिव पिपासुः प्रतर्दन इव पराक्रमी पुरुषोत्तमः प्रशस्यतमः प्रशिष्यश्च प्राचार्यंभूतः घोरप्रचारं कान्तारमिवाकलयन् कलिकाल- कश्मलितं कालकलिं क्रोधाविष्ट इव कालसर्पः फूत्कृत्य फूत्कृत्य प्रवेयमानः प्रोद्धूय वदनं प्रोत्कृत्य चोष्ठं प्रविघूर्णमाणः प्रागात्पुरं प्राक्तनप्रापनीयम् ।


 दिल्लीपुरी प्राक्तनढिल्लिकाख्या
 संस्थापिता तैस्प्रतिहारराजैः ।
 काष्ठा: कृताकृष्टिकृतप्रकाशाः
 पारंगतै: प्राणपणापणीनाः ।। ४ ।।


 कलिन्दकन्या कीनाशकनीयसीस्वसासती कीनाशप्रायराजकुल- कलिला कलङ्किता कुलाङ्गाराणां कालिम्ना कूलंकषा क्षुब्धसलिला च सुतरां सम्भावनीया नाभवत् पुंभिः अत एव वीरो वैरागी वैरागीव गरीयान् गुरुगौरवाढयः गर्वाढ्य: सन्नपि न धनाढ्य: धनजनलिप्सुः सृक्कणी लेलिहानः‘बरिया'स्थले शिविरमावास्य प्रतीक्षमाण: वीवधा- सारप्रसारमनुजुषाणः ‘सधौरा'स्थलं लङ्घनायेष्टकाचयतां नीत्वा तत्तत्रत्यान् मोहम्मदांश्चेष्टिपशुमारं मारयित्वा 'बुद्धुशाह'तच्छिष्य- संघशूलारोपणे रोषारुणितनेत्र: दिल्लीसम्राट्स्वभाव दुर्भावद्वेषदुर्दम्यः गुरुसाह्यदानसव्यपेक्षि-बुद्धशाहश्रद्धालुः मृगालुरिव मृगादन: दुष्टवराह- प्रोथपर्शुकान् स्वशरान तूणीरेभ्य:निःसारं निःसारं तथा नाम कोदण्डा- दवर्षयत् यथा नाम नरनासिकालोलुपाःभल्लूका इव श्मश्रुलाः शूनोदराः शातित: भुवं श्मशानस्थलमिव दर्शयाम्बभूवुः । ‘वजीरखानो'ऽपि महीयान्नृशंसः गुरुगौरवग्रसन संग्रामी ‘सरहिन्द'-प्रशास्ता गुरुपुत्रद्वय- मारणमृगयुः मुमूर्षुरेव मृगाराति मर्दनमनीषी मोक्षैकमार्गी वैरागिकरक- मलाभ्यामेव मृणालतन्तुरिव तिरोहितो बभूव । प्रदृष्टश्च गुरुरसो वैरागिणं पर्वतकान्क्षुद्रसामन्तान् क्षुपोच्छेद मुत्तोल्य संहारार्थमादिदेश । दुग्धाः द्रुहिला: दोरात्म्यदग्धा एव देशिदारणद्रढीयांसः दद्धूधूर्त्ता इव स्वकीयानपि धर्षणरता अथैकल्यवर्त्तानेवाकलथ्य कार्यतत्त्वं शत्रुभिरेव सन्घित्सवः सुतरां धरामिमां धर्षयामासुरत एव शुचिनामनिष्ठोऽपि चेतस्यशुचीनभावः श्रुत्यानन्दो (सुच्चानन्द) नाम नृपशुः पाशववृत्ति- वर्तनः गोविन्दगुरोरपत्यद्वयकुड्यीकरणे दहद्दायित्वदायी देशिजनगण दुःखासिकादानपरो जघन्यः सन् वैरागिवीरहेतिततितिग्मधाराकृत्त-