पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
वीरवैरागिचरितम्


सम्भावितश्च सम्यक् सम्पूजितः समतत्त्वदर्शित्वमापादितः धीवैपरीत्य- विध्वस्तोऽपि विवेकित्वमानायितः भवन्तं स्वसंघसौख्यसौहित्याय नेतृत्वमापादये नेतृत्वमापन्नाश्च बन्दः वीर्येकबन्धनः प्रबन्धक इव पृतनानां परशुशरशङ्कुप्रासादितोमरभिन्दिपालनाराचादिप्रहरणशत- शौण्डीर्यदर्शनः समदर्शनोऽपि विषमदर्शनस्त्रिपुरारिः कामदहनः पञ्चेषुर्मदनरसमर्दनः गुरुणा गोविन्देन गाः विन्दान: स्फूर्तिमयीः शरपञ्चकप्रदान प्रसादवित्तकः प्रोल्लसत्प्राणप्रियालु: प्रतिज्ञापरयो- गन्धरायण इव प्रतिज्ञातयौगन्धरायणः युगन्धर इव युवयुग्मधरः ब्रह्मैकचारीसब्रह्मचारी स्वसंघैकसेनो गुरुभक्तभूतः पञ्चव्रतव्रातभूतान् सायकान् समभ्यर्च्यासत्यप्रमाथी तु सत्यैकवादी स्त्री पारायणस्तु स्त्रीपरित्राणपरः पुमांश्च पुमर्थप्रमाण: गुरुरपि गुरुवादभीतः शिष्यश्च सिहासनासीन: अरातिभ्रममर्दनो मृगारातिः मृषावादिवातवातूलः मृदङ्गध्वजच्छत्रचामरचिह्नचारी पञ्चभिः प्रियैः विनोदसिम्ह कहनसिम्ह- दयासिम्ह - रामसिंहबाजसिंहप्रवीरपञ्चकैरनुगम्यमानः विशतिशूरैश्च परिवारितः प्रजापतिरिव प्रजापतित्व प्रतिष्ठः पञ्चापपुण्यम् पञ्चाप- प्रदेशं प्रपित्सुः पञ्चाप्तपुरुषपरिवृतः विंशतिसम्पिण्डितै: पञ्चविंशति- पुरुषाधिष्ठित: पञ्चविंशतिसहस्र प्राणिपरित्राणप्रतिज्ञातप्राणपण: पञ्चाग्निसाध्यान् पञ्चनियमानेव प्रतिष्ठासुः अष्टोत्तरसप्तशतोत्तर- सहस्रतमे ख्रीष्टाब्दे गुरोर्वधव्याप्तविषस्फूर्जितफणाभित्तिभृद्व्याल इव वपुष्मान् पञ्चापमागात् प्रतूर्णम् ।


इति डा० सुदर्शनशर्मणां कृते वीरवैरगिचरिते,

द्वितीय उच्छ्वासः ॥