पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
वीरवैरागिचरितम्


गतोऽसि वीर । जघन्यतां क्लैव्याक्रान्तश्च न धावसि किम् न कार्मुकं शरासार वर्षणाय शत्रुषु ? राजपुत्रोऽहं राज्ञां पुत्रानेव स्वपौरुषेण सन्तर्पयिष्ये । निशम्य निनदं नरहरेः नृप इव निष्ठावान् नायकमनीकिनीनां चिकीर्षुस्तं साह्लादमुवांद परिरभ्य दोभ्यम् – ‘तुष्टोऽस्मि वीर ! तितिक्षमाणश्च तिरस्कारं प्रतीकारतृष्णाकुल: नायकमवाप्य महानुभावं भ्राजिष्णुरूपं ब्रह्मणः प्रतिरूपं क्षात्त्रं धर्ममिव साक्षात् सम्भाव्य तैजसं पार्थं त्वां रथेषया रेरिहाण: 'खालसा' संघ नेतृत्वे नियोज्य कृपाणपाणिं त्वां पृतनाप्राग्रहरं प्रवीरवृषभं प्रहाराय प्रोत्तेजयन् प्रदिशम्यादेशम् ‘प्रलये प्रलीनभूपाले निलये निलीननृनाशे विषये विध्वंसविश्वासे नृशये नृशंसनृपनाथे शवाधाने च श्मशाने शितशरप्रसारकासारे हितहेतिततिव्यूहव्यवहारे धृतधैर्यधमीं अकृतक्रौर्यकर्मी श्रितशौर्यशर्मी अकातर्यकर्ती अवैधव्यवर्धी विहितवीरधर्मा निहितनीचमर्मा व्यलीकेष्वव्यलीकी प्रतीकेष्वप्रतीक्षी विहितात्मभाव: परमर्मभेदी वरकर्मयोगी नरनर्मनर्त्ती नत:सम्प्रदाये नैव सम्पराये गतो धर्मदाहे नहि भर्मभारे रतो राष्ट्रवादे नहि भ्रष्टभावे धृतो धैर्यदोहे नहि क्रौर्यमोहे हृतो हर्षहावे नहि तर्षतोषे वृतो वर्मवेशे नहि चर्मशोषे स्व सम्प्रदाये परीवादवादं मा कार्षीः । माया: घवो माघव इवासौ माधवः माधवस्यैवदासभूतो माधवदासः स्वदेश्य- दास्यद्रुग्ध: विद्रोहरोहारूढ: रुद्र इव मदनदाही क्षौद्रपटलपाटलान् रोषरक्तचक्षुष्कान् चर्मवर्म चञ्चद्वपुष्कान् स्वसैनिकान् संपरिवार्य सम्परायसम्प्र तूर्णः तूणीरशरश्रद्धालुः शत्रुगृध्रमृगयालुः शिशुरपि सिंहः करटीगण्डभेदनप्रवणः क्षात्रोधर्म इव साक्षात् ब्रह्मविट्शूद्रान् क्षतात्त्राणपरःपरमेष्ठी परपरिमाण मर्मजिज्ञासुः दिशां जिगीषुर्विजिगीषुः स्वमण्डलमण्डलितः परमण्डलपरिमण्डलीजिघांसुः ‘मृगो न भीमः कुचरो गिरिष्ठाः’ जगर्ज गौरवाकूतः ।


 भावो गुरुगौरवगानगृध्नुः
  शिष्यो भवाम्याहितधर्ममर्मा ।
 नम्राननो नूनमनूनसत्त्वः
  सत्त्वार्थकामाम् नु धियम् प्रपद्ये ॥ २ ॥


 सत्त्वतत्त्वपराक्रमधर्मी भवान् मान्य एव जगतां यद्विजिगीषु- भावगर्वितान् म्लेच्छानपि मोहमापन्नान् मुमुक्षुः साह्यदानान्नैव