पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
अथ द्वितीयः उच्छ्वासः


साधोः साधुसमवाये श्रद्धापरोभूतः राष्ट्रत्यागैकनिष्ठापरः जानकीप्रसाद- शिष्यो बभूव।

 जानकीप्रसादवित्तो प्रियरामाभिरामोऽपि लक्ष्मणो यथा यौवनारम्भ एव प्रियोर्मिलोर्मिलाभलसदभिलाषतरङ्गिणीपारावारः परिवार- पयोधिचन्द्रोदये चञ्चत्पुटोज्ज्वल मणिमाणिक्यमौक्तिक:प्रजावत्सलोऽपि प्रजाविलासव्यवधानविधार्या रामानुजोरामानुजातप्रजाति: वनवासिराम रामानुसरणपरोऽनुजोवी हिम्स्रश्वापदनिशाचरप्रतिभयेऽरण्ये रामैकरागी वैरागी पञ्चवटीम् पर्यटनपटुः परिव्राड्भृतः परिवव्राज तथैव जानकी प्रसादप्रसादविल्लक्ष्मणदेवो रामदेवसुतः रामसुतकुशनामप्रख्यातपुरम् कुशपुरं ‘कुसूर’ इति भाषागतं ‘बाबारामथमन’ वास्तव्यभूतं वैरागसंघ सन्निवेशप्रायं पर्यटन् रामदासप्रमुख वैरागि संघसदस्यभूतः माधवदासापरनामधारी वैशाखसंक्रान्तिसमये वैशाख्याख्योत्सव समारोहविलाससोल्लासी सविधस्थल सरित्सन्निवेशदेवकुलविहारवर्ती नासिकनिकटवर्तिविन्ध्याटीवटपञ्चकप्रख्यातनाम्नीं पञ्चवटीमेवदण्ड- कारण्यभाजां भिक्षाट इव भेजे। या नाम युगयुगीनतपः पूता वाल्मीकि प्रभृति मुनिगणगतिगौरवा दाशरथिदोर्दण्डविहितकोदण्डविसृष्टशर- शलाकाशकलित शरीरपुरुषादशान्तर्षि समाधि संबाधसद्वन्धा, शूर्पणखा- कर्णनास्कर्तनान्नासिक्यनामे नूतनी पौरस्त्यपाश्चात्यपयोधि पुलिन- परिवेशा, अगस्त्याश्रमश्रितगोदा वरीकूलानुकूला सर्वतुशोभनाकारा समित्पुष्पकुशोदका मदमत्तसामजसमाजनार्दण्डोद्वान्तवारिवृष्टयुत्सेक- संवर्धितपुष्पप्रकरप्राकारपूरितपादपपरिवारवारिता, कुररकुलकलर रमणीय मरिचपल्लवमलिनी करटिकर कुड्मलिततमाल किसलय- लङ्कृता कीरकुलाकलितदाडिमद्रवार्द्रीकृततलैरतीवोद्दण्डमर्कटकुल कम्पितकक्कोलपल्लवकिर्मीरैः प्रततपतितपुष्परज: - प्रकरप्रकीर्णै: प्रवासिपुरुषपरिहितलवङ्गपल्लवतल्पैः केतकीचम्पक नालिकेरफल परिगतप्रान्तैः विपिनश्रीविश्रामवासैरिव विलासितादल्लीविनिवेशै: ललितैलालतालङ्कृतललामलम्बालकाकार प्राकारा वास्तव्यभूमिरिव विसंष्ठूलशाखामृगाणां शबरपल्ली परिवारितप्रदेशा, शबरपृतना- पतिप्रमथित प्रभूतकण्ठीरवारावा, कीनाशकेतुकेतनमिव कालकलित- कूला कालमहिषाधिष्ठिता च, सङ्गरसमुद्धतानीकिनीव शरशला- केषिका विषक्तविशिखविशाखिकानिहित नरहरिनादा च, प्रावृट्श्रीरिव परिवारितपानीयापूरा, कोकिलकुलकालकण्ठकण्ठाला, शशधर इव