पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
अथ प्रथम उच्छ्वासः


 ‘दारिद्रयदोषो मुणराशिनाशी’ सदुक्तिरियं कर्णामृतत्वप्रायापि लक्ष्मणदेवे कर्णविषमिवाविषह्यप्रभावा अभवत्—यतः निरक्षरोऽप्यक्षर- रक्षणशौण्ड: क्षेत्ररक्षणपटुः प्रियधान्यासारविसर: पितुर्व्यवसायसाह्यदान सल्लक्षण: शरचापधृन्मकरकेतन इव वपुष्मान् रतिरभसावेशविहतान् विहङ्गमान जाविमेषमृग कपोतपोतान् प्रियतन्त्रीवाद्यव्याध इव वनेचरः बीराग्रणीबुभूषुः धृतबृहत्तर्वङ्कुरपल्लव इव स्निग्धवर्ण: तेजस्तरस्वी वेधोवयस्वी एकलव्य इवापरः द्रोणाहङ्कारकर्षी प्रकृतिक्रोडाक्रीडी कलभ इव कलकलं कुर्वाणः मत्तगजमदादानपरः स्वभावादेव कण्ठीरव: कण्ठारावविरोधी व्यवहारे व्याहाराहारहर्षी हृष्यद्धय इव हरिच्छाद्व- लवल्गनशीलः शयुरिव शयानः शतशः श्वापद संहारकारी बाल्ये बली अबालबलशाली जगतामखिलानां विस्मयास्पदत्वमवाप ।


इति डा० सुदर्शनशर्मणां कृते वीरवैरगिचरिते

प्रथमः उच्छवासः ।