पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
वीरवैरागिचरितम्

जयन्ती मदमलिन कपोलभित्तिकरटिकरटप्रहारदानाय च प्रेरितवती । शीर्षं च पितुस्तेन वैदिकविधिनासंस्कृतं कृत्वोशीरदारुदाहविधेयिकृतम् । दशमेशभूतो दशमो गुरुरसौ शिष्यैः स्वैः गौरवमापादित: सब्रह्मक्षत्रविट्- शूद्रवर्गान् समाशसम्भाषसम्मेलने सञ्जुहाव । नववर्षदेशीय एव पितुः प्राणसंहारे साहसी स: विद्वान् नाहन्नरेशनगरीमागात् कालेकस्मिश्चि द्वयतीतेसति । एकोनविंशे समतीते वर्षे वयसः स: वर्णाश्रमधर्मेकघर्मी भिख्या इति नाम्नीं कुमारीमुपायंस्त विम्शे च वर्षेतथैव प्रेरितोमात्रा बन्धुजनेन च जीतो नाम्नीं कुमारीमपरामपि परिणिम्ये । अजितसिंह- जुझारसिंह - जोरावरसिंह फ़तेहसिंहाख्यपुत्रचतुष्टयप्रसवसौम्या च भरतभूश्रीः वीरसूरिम्ति वीरुदं पुनरप्यवाप । पुत्रचतुष्टयेऽजितसिम्ह जुझारसिम्हो इस्लामदीक्षां नकारयन्तावेवावरङ्गजीवपृतनपरीतौ पर:- शतैः प्रहारैः प्रेत्य किल लभ्यानि फलान्यवापतुः। जोरावरसिंह फ़तेह- सिंहौ च तथैव नकारयन्तौ नराधमविभीषिकाः प्रलोभ्यमानावपि च स्त्रीराज्यधनादिविसरविशेषदायप्रदानप्रायैः भित्तिभागनिर्माणपरीतौ जीवन्तावेवकृत्तशिरस्को पितर्यपि जीवत्येव मातृद्वयेऽपि च तथैव भवति निर्घृणजाल्मात्याचारजालजर्जरितौ जीर्णौ काये न तु लोकहृत्सु शीर्णौ व्यवसाये न तु मानभृत्सु युगयुगान्तरयशोगानगुरू बभूवतुः ।

 षट्षष्टयुत्तरषोडशशततमेऽब्दे गोविन्दरायेत्ति नाम्नो गोविन्दसिम्हस्य जन्मजातमासीत् । लक्ष्मणदेवोऽपि सप्तत्युत्तरषोडशशततमेब्देऽक्टूबरमासे षोडशेऽह्नि जातोऽभूत् । नवमगुरोस्तेगबहदुरस्य कदनकाले गोविन्दश्चे- न्नववर्षदेशीयोऽभूत् लक्ष्मणदेवः केवलं पञ्चवर्षदेशीय एव । कोऽजाना- द्यत्काश्मीरवास्तव्यो दरिद्रः पञ्चापदेशीयमहात्मना समागतः कदा- चिदितिहासे महत्तर एवात्मा भवितेति । विधेरेव विस्मयकरो विलासोऽयं यदसो दवीयोदेशदुर्गातात् लोके नगण्यात् स्थलात् नेदीयोदेशमानीय मिथः सम्भाव्य च तथाविधसौहार्द सौहित्ये संयोजयति यद्युगस्मरणी यास्ते युगसंरक्षणपराः अवतारा इव प्रविभासमानाः मोहनिद्राविनि- द्रितान् विद्विविशिखविहतान् विहगानिव विश्ववियद्विहरणाय प्राणापानव्यानोदानदानैः पुनरुज्जीवयन्त इव प्रखरांशुमन्तोदिवाकरा इव प्रतिदिनमुदीयमाना एव सन्ध्यास्वस्तायमाना अपि यशोदोप्ति दीपप्रकरपरिकरिता इव जगज्जीवनाय दानवदवदावाहुतिषु शलभायमाना अपि अमृतत्वाय प्रकल्पन्ते ।