नाय महात्मनाऽनेन तैग़बहादुरेण स्वप्राणाहुतिदानेन स्वदेशिभ्यो नव
एव पन्थाः दृग्गोचरीकारितः। कृत्तमात्र एव शिरसि वपुरस्य विचेष्ट-
माणं यवनाधमसंत्रासात् न केनपि संस्कारविधेयीकरणायोत्थापितं
विधेश्च विलासात् प्रकृत्यापि शोकसंवेदनमाख्यातुम् रोषाविर्भूतये
भीमरूपस्य वात्याप्रकोपस्यावेश आविष्कृत: । दिक्षु च वेतालताल-
तरलायमाना: विरेसुः विदीर्णकलकण्ठनादाः शिवाः । प्रतिभवनं
चाट्टालकोपेताः करुणं चुक्रुशुः ध्वांक्षाः । मनस्विमनुजमरणत्रासत्रुटि-
ताश्च व्यकिरन् विहायसि विहगगणविहारपरिहारकृतस्तारागणाः ।
पाश्र्वस्थपादपैरपि प्रियजनपरिभवनिराशै: पत्रमिषेणात्राणि मुक्तानि ।
विहरद्भिर्विचरद्भिश्च गवादिभिरपि स्वरोमन्थमोचं समवेदनत्वं
प्रख्यातम् । अनित्यस्य शरीरस्य शरीरिणा शिरोलोपमवाप्यानवाप्यं
यशः एवावप्तम् । रजोऽवकीर्णं वपुर्हि तत् जनगणविक्रोशदीर्यमाण-
गलगह्वरसमेतं बीभत्सदर्शनमपि सत् श्रीभद्रवर्धकमेव जातम् । नियम
निष्ठत्वनिरतो हि नाऽनूनसत्त्वः सत्त्वतिरेकात् सत्त्वासत्त्वनिरपेक्षि-
त्वात्सत्वसत्यसव्यपेक्षी सद्धर्मसमुत्थानशीलः सताम् सुहृदसतां च दुरहृद्
दुर्जनदुर्नयानायवडिशवागुराबद्ध इव शफरः शोच्योऽशेत् । शयानः
शरीरेणोत्थानशीलश्च शर्मणि घर्षितोऽपि प्रकर्षित: संलुप्तोऽपि
विलिप्तकीर्ति: संपिष्टोऽप्यक्षुद्रारिणा बलीयसा बलिनाऽबलीकृत:
सबलीकृतः स्वदेशिभि: सोत्साहकृन्निरशिषां निरहङ्कारकृत्कोऽपि
कर्मीकृतपुण्यकर्मेव मनस्वान् जेतृनामासुजन एव स्वजनान् सुहृज्जनांश्च
विहाय प्राणान् पणीकृत्य परैरलक्ष्य इव गुरोरस्य शीर्षम् कराभ्यामा-
कलय्य विद्रुतः प्रापत्पुरं स्वानन्दपुरप्रख्यम् । लुवाणवंश्यश्च पणिनां
वरेण्यः कोऽपि करुणार्द्रेचेताः कबन्धमस्य शकटेन निर्वाह्य सपद्येव
कार्पासकर्पटपिहितं चकार । राजकोपपरिहारार्थी च स: अन्त्येष्टि-
क्रियाभिलाषी स्वगृहमेवाग्निसात्कृतवान् ।
साग्निकृते गुरुशरीरसहिते स्वेगृहे जेतृनामा शिष्यस्तस्य शीर्षमिदं कराभ्यां संगृह्यास्य पुत्रं गोविन्दसिंहं समदर्शयत् । पितृशिरः कृत्तमवलोक्यापि स मनागपि न चचाल चेतसि बाष्पबिन्दुमपि न मुमोच धीरः । धैर्यधनश्च साधुरसौ न किमपि दुष्करं कर्तुमारेभे । मोहपरीतो वा न भृगोरात्मानमपातयन्न चापि स्वमुद्बध्य व्यापादनपरो बभूव पितामहीं मातरं च सान्त्वप्रायैर्वचोभिराश्वासयन् शोकविह्वले ते प्रकृतिस्थे चकार । माताऽप्यस्यानु मरणक्लैब्यं परिजहे सिहीव शावमुत्ते-