पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
अथ प्रथम उच्छवासः


दिवाकरवरकरा केसरकुड्मलकोशकेश संस्कारसम्भारा, शर्वरीशबरी- संवाहिकासंवाहनकर्मप्रसाधना चन्द्रार्चिचञ्चच्चत्वरचारु - हासिनी निशान्तसुखसुप्तोत्थितकूजत्क्लान्तकपोतकुक्कुटकुलकुलायाकुलचैत्या - रामदेवकुला, साभिसाराभिसरणसौष्ठवापादनप्रतिपत्तिपेशल प्रति- पच्चन्द्रतारकोल्मुकगणगुणहार हराभिसारिका, निझीरनीरनीहारासार- सरित्स्रोतः स्रावपरिसारविहारहृद्धारिणी हरिणीव हरितशाद्वलप्रचारा राजपुरी नाम नगरी ।

 नगनदनीररावरौद्रदरीद्वारदोहलेयं पुरोत्तरस्यां दिशि पीरपञालपाशिता पाश्चात्यभूधरधरायां च पुच्छ कोढ्योनप्रदेश पेशलादक्षिणस्यां च भिम्बरभारिणी पौरस्त्यभूधरधराशायि - चन्द्रभागा- सरित्स्रोतसी अकृष्टपच्यसस्यसम्पत्सारणी अधृष्यदोर्दण्डधार्येकवारणी वारुणीगण्डूषसेक सुकुमारकुमार कौमारभृत्या विश्वम्भरविश्वम्भरा- भरभूभृद्भवभावनीना पिककुलकलरवारावितसिताशा चञ्चरीकचारण चरणचारचारिचमत्कृतारण्योद्यानपालीका मधुकाल कलिकाकोर- किताधर रागपरागपीतासवमत्तमधुपपरभृतप्रोत रतिराग गौरवा उल्लिखितमनोभव मन्त्रमुग्धमृगमदाङ्कवासितदृषद्धरीणा, मलय- मारुतमन्दचारचारितरुणतरुततितीर्णकरि - कोकिलकलकला, शष्य- श्यामपटावगुण्ठिताद्रिदेशा साक्षादृतुराजाकारेव रङ्गतरङ्गरङ्गिणीत- रङ्गिणीतोय शृङ्गारदर्शिनी कमलिनीकमल कुवलयकह्लारकुलगन्ध- रसलुब्धालिवृन्दविहारवर्तनी प्रसूनगुल्मलक्ष्मी क्रीडलालितरसालद्रुमा- मोदसामोदा तरुणतरुणीतर - स्विनीनिम्नगा - करेङ्गिताकारधर्मिणी ‘वीरसूरिति विख्याता वीरं सुतमेव सुषुवे क्षुद्रकृषाणकुले रामदेवगृहे भारद्वाजगोत्रीय राजपुत्रप्रवरीये लक्ष्मणदेवप्रख्यं देवलक्ष्मणम् जनानां दासित्वाल्लक्ष्मणदासापरनामानम् । रामानुजलक्ष्मण इव सल्लक्ष्म- भूल्लक्षणविद्रामदेवात्मजोऽयम् लक्ष्मणदेवो देव इवापरः सद्धर्म- कर्मानुयायी लक्ष्यलक्षणविज्ञ: दारिद्र्यदोषैकभागी तेजः पुञ्जप्रतापी प्रक्रिया पाशपुष्ट: विक्रियाभारभ्रष्टोऽपि सत्क्रिया भावजुष्टः बाल्ये विद्याव्यवहारलम्पटोऽपि तदुपायाभावप्रभावात् विद्वान्नैवाभूत् । पर- मुपायरहिताः अप्यपायविहताः सन्तोऽपि स्वभावप्रतिपत्तिप्रकृष्टत्वात् भगवद्दायोपात्तदायित्वा: दवीयोदेशाद्रिदरीदृषद्राशिप्राकारपरिकरिता अपि स्फूर्तिस्फुरत्तारक स्फुलिम्गा इव वह्निवृष्टिमन्त: प्रदीपाकाराः जगद्ग्र्यापि विद्रोहद्रोहसंविष्टाशिविषविसर्पान् स्वधैर्योत्साहमूल-