पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
वीरवैरागिचरितम्


युगान्तरेषु युगनिधनकल्पं कल्पमाधाय शिवनिभान् युगत्राणविधि- त्सुनेवसमपेक्षयन् । परं परम्परानुगता च सा सभ्यता भारतीया युगे युगे योगनिष्ठत्वमाप्ता सांख्येन संख्यानशीला सत्कर्मपरिणामपेशला दुष्कर्मदुर्भावविश्वासिनी चरमे घर्मसापेक्षित्वात् साधुजनत्राणपरा दुष्कृद्विनाशविधिविधायिनी-


 नष्टा: विधेर्विकारात् ते यूनानमिश्ररोमका: ।'
 सद्धर्मरागरञ्जिम्ना भुर्भारती तु रक्षिता ।। ३३ ॥

 


 इति दर्शनदिग्दर्शनदक्षा विकटविध्वंसदोहे सङ्कटदुर्दैवरोहे स्वाभिमानसत्यापनार्हा प्राणात्ययेऽपि प्राणपणनपुण्या वीरग्रामाग्रणि- ग्रासेऽपि वीर्योदग्र्यध्यानशील धौरेयधामदाहेऽपि यौधेययागयुक्ता यातनायातुधानधृतापि शातनाश्रान्तश्रुत्या म्लेच्छमारणमध्यमस्वरो- त्थामार्जनेवाम्लेच्छिता मूर्च्छामूर्च्छनामुक्तमोहत्वात् मुद्गरमृद्यमान- मानवमुखमानमानितापि दानवदुःखदानधर्मिणी वृश्चिकैर्वृश्चितापि विषवृक्षवल्लीका वंशावलिविलयलूनापि वंशवल्लरीप्रासाद्यानेक- शस्त्रास्त्रसामग्रीसामजसमाज सामञ्जस्या मानाहिंस्रैरपि दुर्मनायमाना शमप्रधाना दुर्दान्तधूर्त्तेरपि धर्ष्यमाणा धैर्यधना क्रौर्येककृद्भिरा- कृष्यमाणा सदाक्षिण्या कदनकेतनकिङ्करैराकूताऽकिङ्कर्तव्यविमूढा सद्भावसोरम्यसुरम्या सच्चरितसौधसुधाकरा, दुश्चरित दोषदवानला, सुधीसद्भावसुखावहा दुर्धीदुर्भावदुःखाकरा नकालकवलनाढ्यम् कलिं- कुत्सितकर्मशर्मणे शौर्यसम्पत्प्रसारणं प्रवणमन्वजानात् । अनन्यजातांश्च जातकान् जनयित्वा जन्यजन्मजिघांसया जन्मनि जन्मनि जिजीविषतो जनानुदजीवयत्।

 तस्यां भुवि प्रकृतिक्रोडप्रक्रीडच्चिक्रोडक्रोश विक्रोशव्याप्तवृक्ष- वीथिविन्यासविशदायां प्राकृतवनितेव प्रकृतिवनितावेषाकारा नववयो- विरावगोतमाधुरी मुखरशृङ्गारा पुष्पप्रकरपरिकरशृङ्गारा भृङ्गारा- वभरितपद्मकोशविकोशविशालचक्षुषी द्रुमदलदीर्घालकप्रतानासु सरि- त्तरलतरङ्गावर्त्तनभिचक्रा, हंसश्रेणिक्वणितरशनागुणा वियच्चन्द्रोपक- चञ्चच्चन्द्रतारकतारकितविचकिलविकासविलासलसल्ललाममुखराग- रञ्जितगैरिकगिरिगह्वरगुञ्जन्निर्झरझाङ्कारमिश्रझिल्लिकानादनिनदित- हरनादशिञ्जितनादेयवारिपरीवाहपरिवारप्रियपतिंवरा, असिताब्द मुक्ताम्बुविसरसुधारस सरसशस्य शाकश्यामलशरीराकारा, उशदुषस्य- वधूविस्मयस्मिस्मेरवदनारविन्दविकासविहितवेशपरिवेषा कलित-