पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वीरवैरागिचरितम्


 यशस्वियुगपुरुषायुरायुष्यो, देवदानवमानवर्क्षवानरकिन्नरयक्षगन्धर्वगणगुणागुणगानगूढ:, पूर्वापरपारावार-पुलिन-परिवार-प्रत्यन्तवर्त्ति पयःपूरप्लावितपरिवाहिणी परिपावितो, दक्षिणाब्धिलवणसिन्धुसरिदम्भः-स्रोतोभिः सिक्तस्थलावलिवनराजिविलिप्तकक्षः ध्वंसाधानेऽपि धृतिधुरीणो धूर्तधुर्यैर्धावितोऽपि धर्मव्यपेक्षी दानवलक्ष्मीलतापरशुः, मानवधीविक्रमध्यानशीलः मध्योदीच्य-प्राच्य-दाक्षिणात्य-दिग्विभागव्याप्तकुरु - पाञ्चाल - शूरसेन - मत्स्य-किरातकाशिकोशलावन्तिमगध - वाह्लीकाभीरकापरान्त - कुकुरगान्धारसिन्धु- सौवीरभद्रकैकेयो वङ्गाङ्ग - कलिङ्ग प्राग्ज्योतिषविदेह सौराष्ट्रै: पाण्ड्यकेरलचोल: महाराष्ट्रविदर्भान्ध्रकुन्तलः कैलासाञ्जनहिमवद्विन्ध्यकिरीटकुण्डल: सप्तसिन्धुप्रसारात्सप्तसैन्धवसनामा सुचारुदर्शनाच्च सुदर्शनद्वीपाह्वयः जम्बूद्वीपस्य द्वीपभूत: आर्याणामावर्तनादार्यावर्त्तापरनामा, नवाब्जरम्यो नवाव्दभव्यो, वर्षनवे प्रष्ठः प्रेष्ठश्च पुंसां भरतर्षभात्मभवभावनीनः विबुधविधिविप्रप्रियः, प्रतापिधीविक्रमविक्रान्तवादी, भीविभ्रमभृम्शाशंसी, श्रुतिस्मृतिसाहचर्यैकलीन:, भारत्या भूभारतीनः, दौ:ष्यन्तिदोर्दम्यदत्ताढ्यभाव: विश्वस्य विश्वस्य भूकाञ्चीभूतः स्वसंस्कृतिव्याप्तिशृङ्गाररागी, जनैर्गणैश्चापि नमस्यरूपः पुराणतत्त्वे पुरातत्त्वदशीं प्रशस्तिभिश्चापीतिहासवादी, विद्वत्प्रियो गोष्ठीगतो जगत्याम्,स्वमातरं वन्दने बद्धभक्तिः, जनानां गणानां मनोऽधिनेता, उदात्तस्वरोऽप्यनुदात्तरागी, धीरोद्धतोऽपि धीरललितः सगुणग्रामरागीष्वगुणग्रामरागी, सवनराजिलोऽप्यवनराजिल:, गिरिष्ठोऽगिरिष्ठः प्राकारतोरणविषयी अप्राकारतोरणविषयी, चतुरङ्गबलसमुदितोऽपि चतुरङ्गबलसमुद्धतः, स्फुरत्कलालापकोमलोऽपि स्फुरत्कलालापकठिनः सविलासोऽप्यविलासः, सुप्रभातोऽप्यप्रभातः, गान्धारग्रामराग्यप्यगान्धारग्रामरागी, अपञ्चमदिगप्यपञ्चमदिक्, सुदर्शनोऽप्यदर्शन:,शान्तिप्रियोऽप्यशान्तिप्रियः, सखण्डलोऽप्यखण्डलः, सप्तसु नवसु वा द्वीपेषु शेखरीभूत: भरतमुनेर्नाट्यरङ्गप्रसङ्गः रङ्गत्तरङ्गतरङ्गिणीकः भारतानां भृतिभरो भारताख्यो बृहद्देशः ।

 यस्मिन् निरस्तसमस्तसुरलोका सुरस्त्रीव सुरसरासरासणी सरससारसारणी सम्भृतश्रीका विहितविधीका निहितनीहारनिधीकाश्रितशाद्वलीना कृतकामकीला वृतवामलीला कृषिकर्मगूढा उत्तरापथीना व्याप्ताखिलोत्तरप्रदेशपञ्चापहिमाचलप्रदेशपुरवरा जाम्बूनदीयाऽधि-