पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
32
[बालकाण्डः
शूर्पणखाविरूपणं, खरादिननं च

 तेन तत्रैव वसता जनस्थाननिवासिनी ।
 विरूपिता शूर्पणखा राक्षसी [१]कामरूपिणी ॥ ४६ ॥

 तेन तत्रैव-दण्डकारण्यदक्षिणप्रदेशवर्तिपञ्चवट्याश्रम इत्यर्थः । [२]जनस्थानं नाम रावणसामाजिकबलनिवासदेश: । विरूपिता-तत्करोतीति ण्यन्तान्निष्ठा । यद्वा तारकादेराकृतिगणत्वादितच् । नासिकाछेदनेनेति शेषः । शूर्पणखा- 'नखमुखात्संज्ञायाम्' इति ङीब्निषेधः । 'पूर्वपदात्संज्ञायां-'इति णत्वम् । [३]कामः-इच्छा । स्वाभीष्टरूपग्रहशक्तिमती ॥ ४६॥

 ततश्शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
 खरं त्रिशिरसं चैव दूषणं नाम राक्षसम् ॥ ४७ ॥
 निजघान रणे रामस्तेषां चैव पदानुगान् ।

 सर्वराक्षसानिति ॥ जनस्थाननिवासिन इति शेषः पदमनुगच्छन्तीति पदानुगाः । 'अन्यत्रापि-'इति वचनाडुः ; टिलोपः ॥ ४७ ॥

 वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥ ४८ ॥
 रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

 निवसतेति। रामेणेति शेषः । चतुर्दशसहस्रसंख्याकानि रक्षसां सैन्यानीति शेषः ॥ ४८ ॥

 ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥ ४९ ॥
 सहायं वरयामास मारीचं नाम राक्षसम् ।


  1. अनेन विरूपणहेतुपरो वृत्तान्तः सूच्यते।
  2. उत्तरकाण्डे 'तपस्विनः स्थित ह्यत्र जनस्थानमतोऽभवत्' (७२-२०) इति दृश्यते
  3. कामरूपिणीत्येतत् व्याकरोति- काम इति.