पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
31
रामेण राक्षसवधप्रतिज्ञानम्

इति स्वेन दीयमानधनुषोऽगस्त्येन वैष्णवत्वप्रतिपादनात् । तूणी चेति चकारेण धनुषोऽपि महेन्द्रदत्तत्वप्रतिपादनं तत्र । यद्वा इन्द्रः परमेश्वरो विष्णु: तस्येदमैन्द्रम्। अनुरूपायुधलामात्परमप्रीतः । अक्षयाः सायका ययोस्तौ तथा ॥ ४२ ॥

 वसतस्तस्य रामस्य वने वनचरैस्सह ॥ ४३ ॥
 ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।

 वनचरैः–वानप्रस्थमुनिभिस्सह तस्मिन् वने वसतस्तस्य रामस्यान्तिकं असुररक्षसां-असुराः कबन्धादयः, रक्षांसि-खरादयः तेषां वघाय-वधं प्रार्थयितुं ; क्रियार्थोपपदस्य-'इत्यादिना चतुर्थी । सर्वे ऋषयो वनान्तरवर्तिनश्चाभ्यागमन् ॥ ४३ ॥

 [१]स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥ ४४ ॥

 स रामस्तदा तस्मिन् वने तेषां राक्षसानां वधं तेभ्यः सर्वेभ्य ऋषिभ्यः प्रतिशुश्राव-प्राप्तकालं असुररक्षांसि सर्वथा संहरिष्ये, नोपेक्षे इति प्रतिज्ञातवानित्यर्थः ॥ ४४ ॥

 [२]प्रतिज्ञातच रामेण वधः संयति रक्षसाम् ।
 ऋषणामग्रिकल्पानां दण्डकारण्यवासिनाम् ॥ ४५ ॥

 एवं ऋषीणामुच्यमानविशेषणानामपेक्षितः रक्षसां वषश्च संयति- यथाप्राप्तकाले करिष्यामीति अचिन्त्यामितनिजशक्तिवैभवाद्रामेण प्रतिज्ञातः ॥ ४५ ॥


  1.  सः रामः राक्षसानां वने राक्षसावासभूते वने तेषां ऋषीणां तथा प्रार्थनावचनं प्रतिशुश्राव अंगीचकार-ती॥
  2. प्रतिशुश्रावेत्युक्तप्रतिज्ञाप्रकारमेव विशदयति सहेतुकं-प्रतिश्चातश्चेत्यादि ॥ अतो न पौनरुक्त्यम् ॥