पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
33
रावणेन सीतापहरणम्; जटायुर्वधश्च

 वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥ ५० ।।
 न विरोधो बलवता क्षमो रावण तेन ते ।

 ज्ञातिवधमिति ॥ रावणादयः खरादयश्च द्वैमातुरः विश्रवसः पुत्राः । अतो ज्ञातयो रावणस्य खरादयः । रावणशब्दश्च विश्रवः-प्रकृतिकः । कथम्? विश्रवसः अपत्यमित्यर्थे 'विश्रवणरवण' इत्यसन्नियोगे विश्रवणरवणयोरादेशयोर्विधानात् । मूर्च्छितः-व्याक्षिप्तचित्तस्सन् । हे रावण ! ते बलवता तेन रामेण विरोधो न क्षमः-न युक्तः, न हितः च-परदारहरणस्य परमानर्थत्वात् बलवद्विरोषस्य खरादेरिव निजनाशान्तत्वाच्चेत्येवं सुबहुशो मारीचेन द्वित्रिःपञ्चसप्तवारं वार्यमाणोऽपि स ज्ञातिवधकोधमूर्छितो रावणो मारीचं नाम प्रसिद्धं राक्षसं सीतापहारे सहायं वरयामास । वृञ् श्नौ, श्नायां वृङ्, णौ वृञ् वरण इति स्वार्थेण्यन्तोऽपि धातुरस्ति । तथापि नास्माण्णिच् । अपि तु वरशब्दात् 'तत्करोति' इति णिच् ॥ ४९ ॥ ५० ॥

 अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ ५१ ॥
 जगाम सहमारीचस्तस्याश्रमपदं तदा ।

 अथोक्तप्रकारं तद्वाक्यं-मारीचवाक्यं तु कालचोदितः- हेतु गर्भं विशेषणम्; विधिचोदितत्वाद्रावणोऽनादृत्य सहमारीचः- 'वोपसर्जनस्य' इति विकल्पात् सहशब्दस्य सत्वाभावः । तदा तस्य रामस्य आश्रमपर्व जगाम ॥ ५१ ॥

 तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ ५२ ॥
 जहार भार्या रामस्य गृध्रं [१]हत्वा जटायुषम् ।


  1. यद्यपि सीताहरणानन्तरमेव जटायुर्वधः-अथापि-सीताया लंकानयनपर्यंतव्याधारस्येव हरणपदार्थत्वात् मध्य एव च जटायुर्वधात् नानुपपत्तिः ॥
     मुखं व्यादाय स्वपितीतिवत् क्वा-इति तु गोविन्दराजः ॥