पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
34
[बालकाण्डः
जटायुस्संस्कारः; कबन्धहननं च

 मायाविना तेन मारीचेन । अस्माया-'इत्यादिना विनिः । नृपात्मजौ दूरमपवाह्य-वहेर्ण्यन्तात् ल्यप्-अपसरणं कारयित्वा । गृधं हत्वेति । पक्षापहारेण कण्ठगतप्राणं कृत्वेति यावत् ॥ ५२ ॥

 गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ ५३ ॥
 राघवश्शोकसन्तप्तो विललापाकुलेन्द्रियः ।

 निहतं-निहतप्रायम् । श्रुत्वेति । गृध्रमुखादिति शेषः । विललापपर्यदेवयत् । आकुलानि-उत्कटरजस्तमोविजृम्भितशोकपरवशानि इन्द्रियाणि यस्य स तथा ॥ ५३ ॥

 ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ ५४ ॥
 मार्गमाणो वने सीतां राक्षसं संददर्श ह ।
 कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥ ५५ ॥
 तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।

 तेनैव शोकेनेति । निवृत्तिहेतुमप्राप्तेनाभिभूयमान एव सन् । मार्गमाण इति । मार्गयमाणः । (संस्कारे वा) णौ मार्ग अन्वेषण इति । [१]णेर्विकल्पितत्वान्मार्गमाण इति । रूपेण विकृतमिति। 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । निहत्य ददाह च । ततस्स कबन्धः स्वर्गं गतः ॥ ५५॥

 स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ ५६ ॥
 [२]श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ।

 गच्छन् स कबन्धः अस्य रामस्योपचिकीर्षया शबरीं- उच्यमानवि-शेषणाीं अभिगच्छेति राघवं कथयामासेति योजना । श्रमणीं-तापसीं ;


  1. 'आघृषाद्वा' (ग-सू-२०२) इति णिचः विकल्पः ॥
  2. 'श्रमणां'-च.