'श्रमु तपसि खेदे च' । अस्मात्कर्तरि ल्युट् । टित्वात् ङीप् । सर्वतोऽस्माभिरुचित एक एव पाठो निश्चयाय लिख्यते ॥ ५६ ॥
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ५७ ॥
शबर्या पूजितस्सम्यग्रामो दशरथात्मजः ।
पंपातीरे हनुमता सङ्गतो वानरेण ह ॥ ५८ ॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ ५९ ॥
आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।
हनुमद्वचनादिति । ह्रस्वान्तश्शब्दः क्वचत् । छन्दोवत् दीर्घश्च द्रष्टव्यः । सुग्रीवो युष्मत्सङ्गतिमभिकांक्षत इत्यादिरूपं हनूमद्वचनं । सुग्रीवाय चेति । संगतायेति शेषः । शंसदिति । 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः । महाबल इति । सुग्रीवेण स्वपुरुषार्थसाधकमहाबलत्वेनावगत इत्यर्थः । किमशंसदित्यतः- आदित इत्यादि । तत्-प्रसिद्धं वृत्तं स्वीयं यथा येन-प्रकारेण प्रसिद्धं तथैव तदादितः निजजन्मारभ्याशंसत् । सीताया वृत्तमपि विशिष्य रावणापहारा[१]न्तमशंसत् ॥ ५९ ॥
सुग्रीवश्चापि तत्सर्वं श्रुत्वा [२]रामस्य वानरः ॥ ६० ॥
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
वानरः सुग्रीवोऽपि तत्सर्वं च श्रुत्वा स्वसमानदुःखमहाबलसम्बन्धलाभात् सुप्रीतस्सन् रामेणाग्निसाक्षिकमेव-अग्निस्साक्षी-साक्षादनुभविता यस्य तत्तथा । ततः शेषाद्विभाषा' इति कप् । पृषोदरादित्वात्साक्षिशब्दस्साधुः । सख्यं चकार ॥ ६० ॥