पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
24
[बालकाण्डः
सीतालक्ष्मणयोरपि रामानुगमनम्

सत्यतयानुपालयन् । "लक्षणहेत्वोः" इति हेतौ शतृप्रत्ययः । तत एव हेतोर्वनं जगाम । न केवलं स्वेच्छया, अपि तु पितृवचनकृतनिर्देशात्-आज्ञातः । अपि च कैकेय्या मातुश्च प्रियकारणात्-प्रियसिद्धिनिमित्तमपीत्यर्थः । एतेन मातापितृसन्तोषणमेव सर्वात्मना पुत्रस्य परमो धर्म इति सर्वजगतां भगवता रामेणोपदिष्टं भवति ॥ २४ ॥

 तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
 स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ २५ ॥
 भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।

 व्रजन्तं भ्रातरं प्रियः-अर्श आद्यच् । रामे सुहृत्प्रीतिमान् भ्राता रामस्य स्वयं दयितः विनयसंपन्नः सुमित्रानन्दवर्धनो लक्ष्मणो भ्राता च, सौभ्रात्रं-"हायनान्तयुवादिभ्योऽण्" इत्यण् । सुभ्रातृभावं अनुदर्शयन्, स्नेहात्-भ्रातृस्नेहादेव जगाम; न पित्रादिनिर्देशात् ॥ २५ ॥

 रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ २६ ॥
 जनकस्य कुले जाता देवमायेव निर्मिता ।
 सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥ २७ ॥
 सीताप्यनुगता रामं शशिनं रोहिणी यथा ।

 अथ रामस्य दयिता-इष्टा, भार्या, न केवलामष्टामात्रं- अपि तु प्राणसमा । निरतिशयप्रेमास्पदा; नित्यं हितकारिणी च । जनकस्य निमिपुत्रस्य कुले-अन्वये जाता । यद्यप्ययोनिजा सीता, अथापि जनककुलजस्य सीरध्वजस्य देवयजनलांगलपद्धतावा विर्भूतत्वा-देववादः । कथमेवं प्रादुर्भाव इत्यतो-देवमावेव अचिन्त्योदयस्थितितया देवैरेव स्वकार्यसिद्धिकांक्षिभिराविर्भाविता । यथा देव्या उदयस्तथा