पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
25
रामस्य चित्रकूटनिवासः

तल्लयोप्यचिन्त्यः । तथा भर्तृवियुक्तया बहुकालं स्थितिश्चाचिन्त्यहेतुका । यद्वा इवशब्द एवार्थ । सा देवेन भगवता स्रष्टा देवकार्याय निर्मिता देवमायैव । 'दैवी ह्येषा गुणमयी मम माया'(गी. ७-१४) इति गीता । भगवतोऽनाद्यनन्ता सहजा शक्तिरेव, न केवलं या काचित् द्रौपद्यादिवदयोनिजा स्त्रीति मातुस्त्वात्यन्तिकस्वकुलकथनम् । तिलोत्तमादिवद्देवमायेव स्थितेत्यन्य:[१] । एवमर्थे निर्मितापदं व्यर्थम् । पुंलक्षणै रामवत् सर्वस्त्रीलक्षणसम्पन्ना । पुरुषेषु रामवन्नारीणामुत्तमा वधूः-स्त्री सीता-'सीता लाङ्गलपद्धतिः'; तदुत्थत्वात्सीता । शशिनं रोहिणी यथा राममनुगता ॥ २७॥

 पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ २८ ॥
 शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
 गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ २९ ॥
 गुहेन सहितो रामो लक्ष्मणेन च सीतया ।

 अथ रामः पौरै: पित्रा दशरथेन च दूरमनुगतः गङ्गाकूले वर्तमानं निषादाधिपतिं प्रियं-इष्टं गुहमासाद्य-गुहादिभिः सहितो रामः आगङ्गं रथेनागतरामविसर्जनार्थमागतं सूतं गङ्गाकूले व्यसर्जयत् ॥ २९ ॥

 [२]ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ३० ॥
 चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
 रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ ३१ ॥
 देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् ।


  1. महेशतीर्थः
  2. यद्वा तेवृदेवन इति धातौ भावे ल्युट् । तेवनेन देवनेन लीलया अनायासेनेत्यर्थः-गो ॥