पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
23
रामविवासनम्

कैकयी-[१]केकयस्य अपत्यं स्त्री, 'क्षत्रियसमानशब्दात् जनपदात् तस्य राजन्यपत्यवत्' इत्याञि जनपदे लुप् । केकयमित्रयु' इत्यादिना यादेरियादेशे गुणे चादिवृद्धौ 'टिढ्ढाणञ्...' इत्यादिना ङीपि 'यस्य-' इति लोपे कैकेयीति भवति । अत्र " अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत्” इति न्यायेन कैकयी इति प्रयोगः । एनं वक्ष्यमाणलक्षणं वरं-पूर्वदत्तं प्राप्तकालत्वादयाचत दशरथं, द्विकर्मकत्वात् याचेः ॥ २१ ॥

 विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २२ ॥

 किं तत् वरद्वयमित्यतः-विवासनमित्यादि । निजराज्यात् रामस्य उद्वासनं तत्र भरतस्य अभिषेचनं च अयाचत ॥ २२ ॥

 स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
 विवासयामास सुतं रामं दशरथः प्रियम् ॥ २३ ॥

 सत्यवचनात्-सत्यप्रतिज्ञत्वादेव हेतोः सत्यमयेन धर्मपाशेन संयतः-बद्धस्सन् दशरथः प्रियं सुतमपि विवासयामास |॥ २३ ॥

 स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
 [२]पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ २४ ॥

 वीरत्वं-एकेन अनेकैरपरा युखतया धैर्यममुक्ता शोभामुखतया योद्धृत्वं वीरवत्यम् । स रामः पितुः प्रतिज्ञां स्वविवासनेन ।


  1.  ननु अञ् प्रत्यये 'केकयमित्रयु ' इतीयादेशः किं न स्यात्-उच्यते 'जरायाअरस् अन्यतरस्याम् इत्यतः अन्यतरस्थामित्यनुवृत्तेः तस्य वैकल्पिकत्वात् । न च (यादेशाभाव आर्ष इति वाच्यम्--'कैकेयी कैकयी' इति शब्दभेदप्रकाशिकायामुक्तेः । प्राक् कैकयीतो भरतस्ततोऽभूत्' इति भट्टिप्रयोगाच्च-गो.
  2. पितुः वचनमेव निर्देश:- आशा - गो.