पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
22
[बालकाण्डः
कैकेयीवरद्वयनिर्बन्धः

यस्य स तथा । [१]प्रकृतीनां मन्त्रिपुरोहितायष्टादशप्रकृतीनां, हितैः इहामुत्रहितावहैः कर्मभिर्युक्तं श्रेष्ठं सुतं तं रामं प्रकृतिप्रियकाम्ययाप्रागुक्तप्रकृतीनां मन्त्रिपुरोहिताद्यष्टादशानां प्रियं कर्तुमिच्छया । यद्यपि आत्मन इच्छायां काम्यजपि क्वचित्, अथापि 'छन्दसि परेच्छायामपि काम्यज्वक्तव्यः' इति वचनात् आर्षस्यापि छन्दोवद्भावात् काम्यच् । ततः 'अ प्रत्ययात्' इत्यकारे स्त्रीप्रत्यये टेर्लोपे टाप् । युवा चासौ राजा च युबराजः, तस्य भावः कर्म वा, ब्राह्मणादित्वात् प्यन्, यौवराज्यं तेन संयोक्तुं महीपतिः- दशरथः, प्रत्यिा-यौवराज्यपदार्ह-पुत्रानुभवजनितानन्देन ऐच्छत् । सश्वेतच्छत्रे भद्रासने पितरि स्थिते तदतिरिक्त सर्वव्यापारे अभिषेकपूर्वकमधिकृतो युवराजः ॥ २० ॥

 तस्याभिषेकसंभारान् दृष्ट्वा भार्याऽथ कैकयी ॥ २१ ॥
 पूर्वं दत्तवरा देवी वरमेनमयाचत ।

 अथ तस्य रामस्य, यौवराज्याभिषेकापेक्षितान् संभारान्--"औदुम्बरी आसन्दी, तस्यैव प्रादेशमात्राः पादाः स्युः" इत्यादितः तथा "दधिमधुसर्पिरातपवर्ष्या आपः" इत्यन्ततः बहुचब्राह्मणेनोपदिश्यमानान् संभृतान्, दृष्ट्वा-मन्थरावाक्यात् अवगत्य राज्ञः कनीयसी भार्या, पूर्वं-विभक्तिप्रतिरूपकमव्ययम् । 'कालाध्वनोः' इति तृतीयेति कश्चित् । नहि इह अत्यन्तसंयोग मासमधीत इतिवत् पश्यामः । पूर्व-पूर्वस्मिन् इन्द्रसहायार्थप्रवृत्तदशरथयुद्धकाले दशरथोपरि प्रयुक्तां आसुरीं मायां धवलाङ्गमुनिदत्तविद्यया निवारयन्त्यै कैकेय्यै तुष्टेन दशरथेन, दत्तवरा-दत्तौ वरौ यस्यै सा तथा, देवी-कृताभिषेका


  1. प्रकृतीनां-प्रजानां-गो.