पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
21
रामयौवराज्याभिषेकप्रयत्नः

त्यागांशे । स तु यक्षगणैः सर्वतः सर्वेषामपि निधीनपहृत्य नित्यं निजनिधीनेव केवलं पूरयति । धनदव्यवहारस्तु भगवदाज्ञया भगवदवयववस्वदितिदशगणेभ्यो यावद्भगवदाज्ञं ददाति । नान्येभ्यः काचमात्रमपि । सत्यं व्याकृतम्, तत्रापरो धर्म इव । धर्मस्य मूर्त्यन्तरमिवेति यावत् ॥

 तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥ १९ ॥
 ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
 प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥ २० ॥
 यौवराज्येन संयोक्तमैच्छत्प्रीत्या महीपतिः ।

 "तमेवंगुणसंपन्नम्" इत्यारभ्यायोध्याकाण्डीयः संक्षेपः । अतः प्रागुक्तश्लोकैरेव यथाकथञ्चित् बालकाण्डीयोऽर्थः भगवदवतारादिः सूचितो वेदितव्यः[१]। तत्र इक्ष्वाकुवंशप्रभव इत्यनेन विश्वामित्रानुग्रहजदिव्यास्त्रसंपत्यादिः ताटकावधयज्ञशत्रुनिबर्हणान्तो व्यापारः सूचितः । अथ "विपुलांसः" इत्यादि "लक्ष्मीवान्" इत्यन्तं यौवनदशावर्तिसीतापरिणयादिसंक्षेपः । सत्यपराक्रम इत्यनेन सत्यलोकवर्तिसत्याख्यलोकेश श्रीहिरण्यगर्भभावेन स्वीयेन भार्गवलोकप्रतिबन्धान्तव्यापारः संक्षिप्तो वेदितव्यः । अथ एवंगुणसंपन्नम्- प्रागुक्तनित्यासाधारणकल्याणगुणसंपन्नम्; पश्चादुक्तरीत्या श्रेष्ठगुणैः यौवराज्यसार्वभौमपदाभिषेकार्हविशिष्टगुणैश्च युक्तम् ; सत्यपराक्रमं -सत्यपरिपालनबलात् प्रवर्तमानः सत्यः-अमोघः पराक्रमः-परेषां शत्रूणां आक्रमः-अभिभवः


  1. अत्र च नारदेन वाल्मीकिं प्रति विस्तरशः रामायणमुपदिष्टमित्यत्र न किञ्चित्प्र माणमुपलभ्यते । 'रहस्यं च प्रकाशं च ' इत्यादिब्रह्मवरमहिना सर्व साक्षात्कृत्य रामायणं चितवानित्येवावगतेः । अतः सर्वार्थानां अस्मिन् सर्गे अन्तर्भावसमर्थनं चमत्कारविशेषार्थमिति ॥