पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
20
[बाकाण्डः
नारदेन श्रीरामगुणवर्णनम्

 [१]विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
 कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १८ ॥

 वीर्यं व्याकृतम् ; तत्र विष्णुना तुल्यः । अनुग्रहप्रधानो विराडिष्णुः, स्वप्रधानो विराट् प्रजापतिः । प्रजापतिरेव विष्णुः ; विष्णुरेव प्रजापतिः ; भेदव्यवहारस्तूपाधिमात्रात् । अयमर्थः श्रीमद्ब्रह्मसिद्धान्तप्रकरणे बहुग्रन्थविस्तृत इति नेह शक्यप्रपञ्चनः । यद्यप्ययमेव रामो विष्णुः प्रजापतिः । तथापि मानुषोपाधिभेदात् सादृश्यम् । एवं सर्वत्र द्रष्टव्यम् । सोमवत् प्रियदर्शनः-सभायां प्रजाव्यवहारनिरीक्षणकाले । कालामिसदृशः क्रोधे-युद्धादिकाले । शक्यप्रतिक्रियापकारसहिष्णुता-क्षमा, तया अन्वितत्वे पृथिवीतुल्यः । पृथिवी हि माता सर्वस्रोतसामनन्यगतिकत्वात् तत्प्राप्ताघं क्षमते ॥ १८ ॥

  [२]धनदेन समस्त्यागे सत्ये धर्म इवापरः ।

 धनत्यागे-यज्ञदानादिरूधर्मार्थवित्तव्ययविषये अपेक्षितधनसंपत्तौ धनदेन-नवनिधीशेन समः । अस्मिन्नेवांशे अयं दृष्टान्तः; न तु


  1. विष्णोरर्धत्वेन रामस्य षिष्णुसादृश्यं सुवचमेव.......तदंशस्यापि तत्सदृशत्वं युक्तमेव-गो.
     विष्णुना-स्वेनैव वीर्ये सदृशः-उपमानान्तरराहित्यमनेनोक्तम्-ती. विष्णुना सदृश इत्यनन्वयालङ्कारः-ति.
  2. त्यागे सत्यपि धनदेन समः, अनेन अक्षीणकोशत्वं महोदारत्वं चोक्तम्-ती.
     कुबेरस्य त्यागित्वं ' त्यागे च धनदो यथा' इत्यादिवक्ष्यमाणवचनशतसिद्धम् । न च तस्य लुब्धत्वं कुतश्चित्सिद्धम् । त्यागे सत्यपि धनदवदाढ्यः इति व्याख्यानं तु प्रक्रमविरुद्धम् । न ह्याढ्यत्वं कश्चिद्गुणः । तथा सति लुब्धत्वमे॒वास्य सिद्धं स्यात्-गो. वस्तुतस्तु–तत्तत्पुण्यपापानुगुणभगवदाशामूलकत्वेन धनदातृत्वमेव साम्यप्रयोजकं युक्तं, न हि स्वैरं धनव्यय औदार्य किन्तु सत्पात्रेषु यथायोग्यं दानमेव, तदंशे भवति दृष्टान्तः कुबेर इति युक्तम् ॥