पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
19
रामानुभूतशोकादीनां निर्वाह: (व्या.)

आनन्दं सुतत्वाद्वर्धयतीति कौसल्यानन्दवर्धनः । एतेन महाकुलप्रसूतप्रधानमहिषीसुतत्वरूपस्य साक्षादभिषेकापेक्षितधर्मस्य सत्त्वं भगवति दर्शितम् । वक्ष्यमाणास्तु सर्वेऽभिषिषिक्षिते सर्वथाऽपेक्षितधर्मत्वे स्पष्टाः । गाम्भीर्यं-अगाधाशयत्वं; तत्र समुद्रतुल्यः । संयुगे सर्वसेनापलायनेऽपि स्वयमचलतयावस्थानं धैर्यम् । राजप्रधानं इष्टवियोगादावनतिक्षुमितचित्तत्वं सर्वासाधारणं धैर्यम् । तत्रोभयत्र हिमवत्तुल्यः । अत्र रामस्य सीतावियोगे शोकात् प्रलापदोषमाशंक्य तदभावं समर्थयति [१] कश्चित् । एवमादिरसङ्गतः प्रत्यक्षवचनविरुद्धो भाक्तः प्रलापः पृष्ठीकार्य इति प्रागेवोक्तम् । उपाधिगतधर्माणां तु संसर्गस्य यावद्देहपातमवर्ज्यत्वात् । अपि तु परमात्म कुलपरम कल्याणगुणपरमपतिव्रताया मातुः सीताया वियोगे यदि शोकं प्रलाप च न कुर्यात् तदा शुभाशुभोचितव्यवहाररहितपिशाचतुल्य एव राम: स्यात् । अतस्तत्कालशोकादिकमुक्तं पुरुषोचितमेवेति नायं दोषः ॥ १७ ॥


  1. तीर्थादिभिः स्थलान्तरे एवं समर्थ्यते । रामावतारविषये द्वयी गतिः-  परिपूर्णब्रह्मावतारो रामः इत्येका; मिश्रावतार एवेत्यपरा । आद्यः पक्षः बहुसम्मतः । एतत्पक्षे निर्दोषस्य रामस्य परब्रह्मणः सीतावियोगजशोकप्रलापादिरभिनय एवेति बलादङ्गीकरणीयम् । अन्यथा- 'पूर्वे मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि '(अर. ६३-४)'ईदृशीयं ममालक्ष्मीर्निदेहेदपि पावकम्' (आर. ६७-२४)'नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे' (आर. ६७-२६) इत्यादि परश्शतरामवाक्यैः रामस्य अस्मादृशबद्धजीवापेक्षयाऽपि निकृष्टत्वमेवाङ्गीकार्य स्यात् । सौलभ्यसौशील्यादिगुणास्तु संकल्पमात्राधीनसर्वसिद्धिकस्य परब्रह्मणः अनपेक्षितैतादृशक्लिष्टाभिनयाभ्युपगममात्रेणैव लब्धपोषणा इति तु तस्वपरिस्थितिरित्यन्यत्र विस्तरः । द्वितीयपक्षे रामस्य शोकायङ्गीकारे न हानिः । व्याख्याकारोऽयं ब्रह्मण एवोपाधिसम्बम्धवशाद्दोषमङ्गीकरोतीति स्पष्टमवगम्यते । अतोऽनेन रामावतारस्य ब्रह्मावतारत्वाङ्गीकारेऽपि शोकादिकं वास्तवमेवानीकर्तुं शक्यत इति भाव्यम् ॥