पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
18
[बालकाण्डः
नारदेन श्रीरामगुणवर्णनम्

 "शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
 दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥" (गी. १८-४३)

इति सहजासाधारणक्षात्रभावेनातिधीरमहाप्रभुस्वभाव एव भवति । अत्र अपकारिष्वपि साधुत्वात्साधुरित्यादिक मसंगतमेवमादौ [१]कश्चिज्जल्पति । तदसंगतमिति सन्तस्समवेदिषीरन् । तदतःपरमतिविरलं तादृश कश्मलप्रजल्पः प्रकाश्यते । विचक्षणः-यथोचितं लौकिकालौकिकसर्वार्थकृतिकुशलः ॥ १५ ॥

 सर्वदाऽभिगतस्सद्भिस्समुद्र इव सिन्धुभिः ।
 आर्यस्सर्वसमश्चैव सदैव प्रियदर्शनः ॥ १६ ॥

 होमदेवपूजासभाधिष्ठानादिकालेषु, [२] कामन्दकादिना, (राज्ञा) विमुक्तेषु सर्वेष्वपि तत्तत्कालोचितैस्सद्भिः पुरोहितविद्वन्मन्त्रिप्रधानादिभिश्च'यथा राजा तथा प्रजाः' इति न्यायेन सात्विकस्वभावैः, समुद्रस्तत्तत्प्रदेशे तत्तत्सिन्धुभिरिवामिगतः -सेवितः । आर्यः-सार्वभौमत्वादेव सर्वपूज्यः । सर्वसमः सर्वेष्वपि कर्मायत्तद्वन्द्वमात्रेषु सुखदुःखादिषु हर्षविषादरहितः । शत्रुमित्रोदासीनेषु वैषम्यरहित इत्यन्यः [३] । किमयं रामः परित्राट् ? येन तथा स्यात् ॥ १६ ॥

 स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
 समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १७ ॥

 स रामः एवं क्षत्रियमात्रसामान्यप्राप्तैः सर्वैर्गुणैरुपेतः ।चकाराद्वक्ष्यमाणराज्याभिषेकार्हक्षत्रियगुणैश्चोपेतः । कोसलस्यापत्यं स्त्री कौसल्या । 'वृद्धेत् कोसल....' इति ञ्यङ् । 'यङश्चाप्' । तस्या


  1. महेशतीर्थ:
  2. अयं महाभारते उल्लिख्यमानः कामन्दः स्यात्
  3. महेशतीर्भः