पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
17
नारदेन श्रीरामगुणवर्णनम्

(आप. धर्मसू. २-२०-४) अन्यच्चापरिगृहीतम् (५) । एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धादिकानि (६) "इत्युपदिष्टस्वधर्मस्य च रक्षिता-सादरं सदानुष्ठाता । अपि च स्वजनस्य [१]बन्धुजनस्य स्वभक्तजनस्य च विशिष्य रक्षिता । तथा हि-"राजवंशान् शतगुणान् स्थापयिष्यति राघवः" इति, तथा "सकृदेव प्रपन्नाय" इत्यादिकं च । वेदानां चतुर्णां छन्दःकल्पव्याकरणज्योतिषनिरुक्तशीक्षा लक्षणवेदाङ्गानां च पाठतोऽर्थतश्च तत्त्वज्ञः-परमार्थस्वरूपज्ञः । धनुर्वेदः-धनुषो हस्तमुष्टि स्थितिविशेषाकर्षणविमोकादिदिव्यास्त्रादिप्रतिपादकं शास्त्रं; तस्य च वेदत्वमुक्तार्थ [२] शासनोपचारात् । अत एवान्यत्रापि आयुर्वेदादीनि सव्याख्यानि शास्त्राणि स्मृतयश्च सूत्राण्यपि तत्त्वार्थशास्त्रेणोपचाराच्छास्त्राणि ॥ १४ ॥

 सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
 सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ॥ १५ ॥

 सर्वमूलशब्दशासनाद्व्याकरणं च महाशास्त्रं, कामन्दकादीन्यपि शास्त्रशब्दकानि, सर्वेषामेषामर्थतत्त्वज्ञः । पाठस्य नातिप्रयोजनत्वादर्थविशेषणम् । [३]स्मृतिमान्-उक्ताघीतवेदशास्त्रविस्मरणरहितः । प्रतिभानवान्-व्यवहारकाले श्रुतस्याश्रुतस्य चोचितार्थस्य द्राक्प्रतिभासः प्रतिभा-प्रतिभानं-तद्वान् । सर्वलोकप्रियः-स्वद्रष्टृस्मर्तृसर्वलोकानामिहामुत्रहितावहः । सर्वलोकानां प्रियं [४]यस्मादित्यन्यपदार्थो बहुमीहिर्वा । साधुः -[५]मृदुमधुरशुभस्वभावः । इदं पूर्वोक्तविशेषणसाधकं विशेषणम् । यद्येवं साधुद्विजवद्दीनस्वभावस्स्यादित्यत्रोक्तम्-अदीनात्मेति ।


  1. स्वबन्धु-ग.
  2. वेदनो-ग.
  3. मतिमान्-ग.
  4. यस्येत्य-ग.
  5. मुग्ध-ग.