पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
16
[बालकाण्डः
रामकृष्णावतारयोर्वैलक्षण्यम् (व्या)

न्तानां वयमस्मद्देहानामिव स्वकभूमविग्रहब्रह्माण्डयात्रादिस्वतन्त्रब्रह्मैकसाध्यानां भूयसां ब्रह्मधर्माणां रामोपाधावपि लोकस्य ब्रह्मावतारताप्रत्यायनायाविर्भावित[१] त्वाद्वा ब्रह्मसमत्वम् । नैवं धर्माः कृष्णाद्यवतारेऽपि । स तु प्रजापतिविष्णुप्रधानः । तथैव तेनैव भगवतोपदिष्टम् 'महर्षयस्सप्त पूर्वे चत्वारः ' इत्यादिना गीतायाम् । श्रीमान्-एवमादीनां भगवत्कल्याणगुणानामादरातिशयजपौनःपुन्य-कीर्तनमभ्युदयहेतुतोऽलङ्काराय न दोषगन्धाय । अतः परं व्याकृतपद्मतिस्पष्टं पाङ्क्तान्वयश्च त्यज्यते ।घाता-योगरूढ्या । तथा हि--'रामाय रामभद्राय रामचन्द्राय वेधसे' इति (च) ब्रह्मत्वादिदानीमौपाधिरामविग्रहेणापि पितेव सर्वप्रजाधारणाच्च । रिपुनिषूदन इति । 'नन्द्यादिभ्यो ण्यन्तेभ्यस्संज्ञायाम्' इति वचनात्ए वमादौ वा संज्ञायाम् । तथा हि-रिपुं निषूदयतीति रिपुनिषूदन इत्यण्यन्तात्कर्तरि नन्द्यादिल्योरयोगात् "कृत्यलुटो बहुलम्" इत्येव सर्वतो ल्युट् द्रष्टव्यम् । सुषामादित्वात् इह षत्वम् । जीवा ऊर्ध्वस्रोतोलक्षणाः-तेषां लोकः-समूहः-तस्य अन्नपानादिदानचोराद्युपद्रवत्राणादितः स्थूलदेहरक्षिता। धर्मः श्रौतस्मार्तरूपः । तस्य जीवलोकस्य योनित्यप्राप्तो वर्णाश्रमधर्मः तस्य तत्तन्मर्यादापालनद्वारा रक्षिता ॥ १३ ॥

 रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
 वेदवेदाङ्गतत्वज्ञो धनुर्वेदे च निष्ठितः ॥ १४ ॥

 न केवलं[२]तस्य ; अपि तु स्वस्य-स्वीयस्य "अध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं [३]दायाद्यं सिलोञ्छः ।


  1. त्वाच्च-ग.
  2. एतावत्- ग.
  3. पुत्रादिभ्यो दीयत इति दायः, तमादत्त इति दायादः । तस्य भावो दायाद्यं दायस्वीकारः । सिलं-क्षेत्रादिषु पतितं धान्यं, तस्योञ्छनं-आदानम्.