पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१.सर्गः]
15
नारदेन श्रीरामगुणवर्णनम्

सर्वथैवामानुषभावेऽतिदुर्घटत्वात् ।यथोक्तब्रह्मज्ञानसंभवाय त्रीणि विशेषणानि-शुचिरित्यादीनि । प्रातस्स्नानादिपूर्वकगायत्रीजपादिना रेचकपूरकाभ्यासादिना प्रत्याहारजनितरागद्वेषहानेन च नित्यशुद्धस्थूलसूक्ष्मान्तरपरिकरत्रयः वश्यः-वशंगत इति यावत् । अकृतकानन्यतायोगेन ब्रह्मतावशं गतः । समाधिमान्-यथेच्छं साकारनिराकारनिजब्रह्मतत्त्व समाधिमान् । समा-एकीभूता या परेण ब्रह्मणा चित्तस्य आधिः-धारणं समाधिः । निवातनिश्चलदीपवच्चित्तस्य लक्ष्याचलस्थितिरिति यावत् । अत्र वश्य इति आश्रितपरतन्त्र इति समाधिमान्-प्रतिज्ञावान् इति चाह [१] कश्चित् । तदसत् । सत्यसन्ध इति प्रतिज्ञावत्वस्य गतत्वाच्च ।आश्रितपारतन्त्रस्यानुग्राहकत्वमात्रतात्पर्यतः पारतन्त्र्यस्य मिथ्यात्वाच्च ॥ १२ ॥

 प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
 रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ १३ ॥

 प्रजापतिसमः। यद्यपि प्रजापतिसमविष्णुभूमिविराट्प्रधानब्रह्माबतारो रामो भगवान् प्रजापतिर्ब्रह्मैव-अथापि-मानुषवैराजलोकदेहावतारोपाधितस्तदुवाधिसंसर्गजानां धर्माणां सीतामूलमोहशोकादीनां' इमौ तौ मुनिशार्दूल किङ्करौ समुपस्थितौ' इत्यादिपारतन्त्र्यादीनां आदेहपातमुपाधिप्रयुक्ताशेषनिजनित्यकर्मणां च कियतां अब्रह्मधर्माणामसमाधिकालेष्वनुवर्तनादस्त्येव चोभयोर्भेदः । अथापि मार्गवलोकप्रतिबंधजटायुलोकप्रदानविभीषणशाश्वतराज्यप्रदानहनूमदाकल्प-नित्यत्वभाविकार्यब्रह्मत्वदानसमुद्रसेतुबंधनस्वावतारानुयायिस्वभूमविमहसर्वदेवावतार (पूर्व) सर्वसेव्यत्वसशरीरसपरिकर ब्रह्मलोक निर्याणा-


  1. गोविन्दराजः.