पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
14
[बालकाण्डः
नारदेन श्रीरामगुणवर्णनम्

लक्ष्मीवान्– सीतारूपलक्ष्मीशक्तिमान् । मोपघत्वाद्वत्वम् । एवमु[१]क्तनित्यशुभानि सामुद्रिकशास्त्रोक्तानि लक्षणानि यस्य स तथा ॥ ११॥

 धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः ।
 यशस्वी ज्ञानसंपन्नः शुचिर्वश्यस्समाधिमान् ॥ १२ ॥

 धर्मज्ञकृतज्ञौ व्याकृतौ । सत्याः-अमोधाः सन्धाः-'सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम' इत्येवामादिरूपिण्यः प्रतिज्ञाः यस्य स तथा । प्रजानामित्यादि गतार्थम् । यशस्वी-रावणवघादा चन्द्रतारकानस्तमितदिव्ययशस्सम्पन्नः । असन्ततत्वादिनिः । ज्ञानसंपन्नः-विशिष्य ब्रह्मानन्यताज्ञानपरिपूर्णः । तथा हि-विशिष्य ब्रह्मदर्शनमूलं वचनं-जटायुषं प्रति "मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्” इति । येभ्य उत्तमा न विद्यन्ते ते अनुत्तमाः-ब्रह्मलोका इति यावत् । तथा च श्रुतिः-"अथ यदतः परो दिवो ज्योतिर्दीप्यते सर्वतः पृष्ठेष्वनुत्तमेषु" इति । ननु कथं “आत्मानं मानुषं मन्ये रामं दशरथात्मजम्" इति रामवचनम्?-ब्रह्मज्ञानवत्वे का दुष्टिः । मानुषदेहोपाधिवशात् यदा रजस्तमस उद्रेकस्तदाऽसमाधिदशायां निजतत्व विस्मरणं स्यात् ; स्वप्ननिद्रयोरिव । तथा हि गीयते- "न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः इति । एवं सति उक्तकादाचित्कमानुषभावस्य अभावप्रतिपादनवृथाक्लेशः कस्यचित्केवलं श्राद्धः । तच्चासत्-सीताविरहजप्रलापादीनां


  1. उक्तरीत्याशु - ग.