पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
13
वास्मीकिं प्रति नारदप्रतिवचनम्

इति नारदः । सुललाटः-ललाटस्य रेखाविशेषवत्वं सौष्ठवम् । तच्च लक्षणम्-

 "ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखकाः ।
 शतद्वयं शत षष्टिस्तस्यायुर्विंशतिस्तथा"

इति कात्यायनः । विक्रमः-पदविक्षेपः; तस्य सौष्ठवं गम्भीरत्वम् । तच्च लक्षणं-"स्वरो गतिश्च नाभिश्च गम्भीरः स प्रशस्यते" इति ब्राह्मे ॥ १० ॥

 समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
 पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ ११ ॥

 समः-नातिदीर्घो नातिह्रस्वः । "षण्णवत्यकुलोत्सेघो यः पुमान् स दिवौकसाम्" इति ब्राह्मे । अंश इति शेषः । समानि-अन्यूनानधिकपरिमाणानि विभक्तानि-पृथक्कृतानि अंगानि यस्य स तथा । कानि पुनस्तानि ?

 "भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ ।
 कूर्परौ मणिबंधौ च जानुनी वृषणे कटी ।
 करौ पादौ स्फिजौ यस्य समौ ज्ञेयस्स भूपतिः"

इत्युक्तानि । स्निग्धवर्णः-स्निग्धश्यामलवर्ण इति यावत् । तत्फलं स्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति फुष्कलम्" इति । प्रतापः-स्मृतिमात्रतः अरिहृदयविदारणक्षमं पौरुषम् । "प्रतापौ पौरुषातपौ " इति निघण्टुः । पनिवक्षाः-मांसलसमोन्नतवक्षाः । तादृशवक्षस्त्वस्य सुलक्षणत्वं प्रागेवोक्तम् । "प्यायः पी" ओदितश्च "इति निष्ठानत्वम् । विशालाक्षः-विस्तृतायताक्षः । "बहुव्रीहौ सक्थ्यक्ष्णोः" इति षच् । "नासिका चक्षुषी कर्णौ प्रजान् यस्य चायताः" इति लक्षणशास्त्रम् ।