पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
11
नारदप्रतिवचनोपक्रमः

 त्वया ये बहवो गुणाः कीर्तिताः, त एते प्राकृतपुरुषमात्रे दुर्लभा एव । अथ च-अथापि हे मुने ! यस्तैर्युक्तः तं बुध्वा--स्मृत्वाऽहं वक्ष्यामि । तादृशो नरः श्रूयताम् । प्राप्तकाले लोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ॥ ७ ॥

 इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
 नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ ८ ॥

 इक्ष्वाकुवंशात्प्रभवः-आविर्भावो यस्य स तथा । रामो नाम- राम इति प्रसिद्धः-जनैश्च तथा श्रुतोऽस्ति कश्चित् । तस्मिन्नेवैकत्र सर्वे त्वत्पृष्टा गुणा इति शेषः । त एते गुणाः त्वदपृष्टानेकगुणाश्च, अनन्त कल्याणालयत्वं रामस्य द्योतयितुं प्रतिपाद्यन्ते-नियतेत्यादि । नियतात्मा-निगृहीतान्तःकरणः । वीर्यादिकं व्याकृतम् । आपत्सम्पदोरविकृतिश्चित्तस्य-धृतिः-तद्वान् । वशी-जिताशेषबहिःकरणः ॥ ८ ॥

 बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः ।
 विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥

 बुद्धिः-तत्त्वज्ञानसाधनं सत्त्वप्रधानमन्तःकरणम् । सर्वत्रात्र प्रशंसादौ यथायोगं मतुप् । बुद्धेः प्राशस्त्यं सद्गृहीताविस्मरणावापोद्वापादिशक्तिमत्त्वम् । नीतिः-कामन्दकादिप्रसिद्धराजनीतिः । वाग्मी-"वाचो ग्मिनिः" प्रशस्तवाक् । त्रिलोकशेखरीभूतनिजशासन इति यावत् । श्रीमान् शोभैश्वर्योभयप्रकारनिस्तुलाधिकश्रीयुक्तः । शत्रु-निबर्हणः-शत्रूणां बाह्यान्तराणां यथाकालं यथोचितं निबर्हणः । "कृत्यलुटो बहुलम्” इति कर्तरि ल्युट् । घातूनामनेकार्थत्वान्निपूर्वो ब्रुहिर्हिसार्थः । विपुलांस इत्यादिना सामुद्रिकं लक्षणं कथ्यते । इदमपृष्टगुणकथनम् । विपुलः-विशालः-उत्कृष्ः-उन्नतः अंसः- भुज-