पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
10
[बालकाण्डः
वाल्मीकिशब्दनिर्वचनम् (व्या)

कल्याणगुणाकरं नरं-दिव्यपुरुषं ज्ञातुं समर्थोऽसि-सर्वलोकप्रसिद्धसामर्थ्योऽसि ; तस्मात्त्वत्त एव श्रोतुमिच्छामीति पूर्वेणान्वयः ॥ ५ ॥

 श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
 श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ ६ ॥

 श्रुत्वेति ॥ त्रिलोकज्ञः-भूर्भुवः स्वर्लोकलक्षणांस्त्रीन् लोकान् तत्रत्यवृत्तान्तांश्च जानातीति तथा । एवमत्र समाहारद्विगुत्वाभावान्न ङीप् । नारदो वाल्मीकेः एतत्- यथोक्तरूपं वचः श्रुत्वा श्रूयतामिति चामन्त्र्य-सम्बोध्य स्वरहस्यस्य चिरप्रतिपिपादयिषितस्य प्रतिपादनलाभेन प्रहृष्टो भूत्वा वक्ष्यमाणलक्षणं वाक्यमब्रवीत् । अत्र कूजन्तमित्यादिपुराणपाठीयान् श्लोकानपि व्याकुर्वन् तत्र वाल्मीकिशब्दोऽपत्यार्थेऽपि साधुः, [१]गहादिपाठादित्याह । तदेतद्गहादिपाठस्य वाल्मीकिशब्दोऽपि छप्रत्ययप्रकृतिरित्येतावन्मात्र समर्थत्वेन तदीयव्युत्पत्तिविशेषे औदासीन्यात् । कथं तर्हि तस्य साधुता ? बाह्वादीञन्तत्वादेव । कथं बाह्वादिपाठस्य न ? कारान्तता उपपद्यते ? इञन्तत्वात् । क्वचित् "अत इञ्" अपवादापवादार्थत्वात् । सुमित्रादौ प्रत्ययान्तरबाधनार्थत्वात् । गणत्वेन क्वचिदनपत्यार्थेऽपीञन्तत्वाच्च । यद्वाऽयमप्यपत्यार्थेञन्तः । कथं? वल्मीकगर्भान्निर्गतत्वोपाधिना वल्मीकापत्यत्वस्य गोणीपुत्रः कलशीसुत इत्यादिवत्सुवचत्वात् । यद्वा वल्मीको नाम कश्चिदृषिः ; तस्यापत्यमिति वा । यद्वा दाडिमादिवदव्युत्पन्नः केवलसंज्ञाशब्दः । यद्वा दैवगत्या किञ्चिदवयवव्युत्पत्तेश्च सत्वात्पङ्कजादिवद्योगरूढो वा ॥ ६ ॥

 बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
 मुने! वक्ष्याम्यहं बुध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥


  1. वाम्लीकिशब्दस्य साधु-वमात्रे प्रमाणं-हादिपाठादिति, न त्वपत्यार्थत्वेऽपि । अत एवोत्तरत्र दूषणमपि संगच्छते ।