पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः ]
9
नारदं प्रति वाल्मीकिप्रश्नसमाप्तिः

 आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः
 [१]कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४ ॥

 आत्मवान्-वशी-जितान्तःकरणः । क्रोधः-त्रिविधजिघांसा । जितक्रोधः-त्रिविधजिघांसा विहितापि व्यर्थहिंसाप्रसङ्गरहित इति यावत् । द्युतिः-सर्वलोकदिदृक्षाजननी देहसौन्दर्यकान्तिविशेषलहरी तद्वान् । अनसूयकः-विद्यौन्नत्यादिपरौन्नत्यासहनमसूया, तद्रहित इति यावत् । असु उपतापे इत्यस्मात्कण्वादियगन्तात् ण्वुलि अनसूयक इति । संयुगे-यथाप्राप्तयुद्धकाले जातरोषस्य कस्य रोषद्दोवा अपि-इन्द्रादयोऽपि बिभ्यति । अभ्यस्तत्वाददादेशः । अविषयानस्मानपि भगवत्क्रोधस्संहरिष्यतीति भयं प्राप्नुवन्तीत्यर्थः । एवं पाङ्क्ते मार्गे स्थिते कस्येति षष्ठी ऋषिवचनत्वादित्याह कश्चित् ॥ ४ ॥

 एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
 महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥

 उक्तगुणजातसामान्यनिर्देशापेक्षया एतदिति नपुंसकं । यदेतदुपन्यस्तं तदेतद्दिव्यपुरुषगुण जातं त्वेतादृशस्यास्तीति श्रोतुमहमिच्छामि । उक्तगुणसामग्र्या एकत्रातिदुर्लभत्वात्तादृशविशेषजिज्ञासायां मे परं-सर्वस्मादपि कौतूहलान्तरादुत्कटं कौतूहलं वर्तते एवं पाङ्क्ते एवमितिपाठः सम्यगिति कश्चित् । ननु कथं त्वत्पृष्टस्सर्वो मया शक्यप्रत्युत्तर इत्यतो-महर्ष इत्यादि हे महर्षे-अपरोक्षातीन्द्रियाशेषार्थ ! इदं हेतुगर्भविशेषणम् । हि-यस्मात् त्वमेवंविधं यथोक्त-


  1. जातरोषस्य कस्य संयुगे देवाश्च बिभ्यति इत्यन्वयः । यद्वा-संयुगे जातरोषस्य कस्य बिभ्यतीत्येवान्वयः । शेषे षष्टी । 'संशापूर्वको विधिरनित्यः' इत्यपादानसंशापूर्वक.
    पक्षम्यभावः-गो.